________________
साहित्यसारम् ।
च पर
विशेष्ये तादृशेऽपय्यमतः परिकराङ्कुरः । सर्वान्कामान्ददात्वद्य गौरीरमण एव नः ॥ १८२ ॥ भयवासी भूतलवासिगणनायां पुनर्गण्यते तथेहापीति न कश्चिद्दोष इति समासोक्ते गौंणव्यङ्गयत्वंमलंकारत्वं चेत्युभयात्मकत्वं परिकरस्यापुष्टार्थरूपदोषाभावत्वालंकारविशेषात्मकत्वरूपोभयात्मकत्वसाध्ये दृष्टान्तत्वेन तद्विचार्यते । सुन्दरत्वे सत्युपस्कारकत्वमलंकारत्वं चमत्कारापकर्षकाभावत्वं च दोषाभावत्वमिति युष्मदुक्तलक्षणत एव तयोर्भावत्वाभावविशेषत्वाभ्यां घटत्वपटप्रतियोगिकात्यन्ताभावयोर्घटावच्छेदेन सामानाधिकरण्याविरोधवदविरोधेऽपि गौणव्यङ्गयत्वाख्योत्तमकाव्यत्वस्य अलंकारविशेषत्वरूपार्थचित्राख्य मध्यमकाव्यत्वस्य स्परविरुद्धधर्मत्वेनैकस्यां समासोक्तौ सामानाधिकरण्यं कथं बालैरपि श्रद्धेयं स्यात् । नह्येकमेव कनकं कलत्रं वा तुल्यकालमुत्तमं मध्यमं च भवति । तस्मादविवेचकवञ्चनमेवैतदिति संक्षेपः । यथावा भावत्कोदाहरणानि - ' मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतै प्रीवभिः । वीचिक्षालित कालियाहितपदे खर्लोककल्लोलिनि त्वं तापं तिरयाऽधुना मम भवव्यालावलीढात्मनः' इति । तथा---' - ' मदकामविमोहमत्सरा रिपवस्त्वा - सुर एव तावकम् । धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे' । अत्राप्युपेक्षानौचित्यस्य तावकशब्दप्रतिपादितेन स्वामिभृत्यभावेनैव निष्पन्नशरीरस्य प्रकर्षकं धृतशार्ङ्गत्यादिविशेषण अमोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभिः कृष्यमाणं दासमुपेक्षमाणस्याकीर्तिर्भवित्री तवेत्याकूतान्तर्गतमिति । अत्र शार्ङ्गस्य धनुषः सायकसापेक्षतयैव कार्यकारित्वात्पञ्चमभुजस्य तदुपयुक्तस्य प्रकृते राहित्यात्प्रत्यक्षादिविरुद्ध विन्यासो दोषस्तूक्तव्याख्यानेनापि नैवावमोषितोपि मयावमोध्यते । 'कौमोदकी गदा खड्गो नन्दकः' इत्यमरान्नन्दकस्य स्वङ्गत्वेन कोशनिविष्टत्वेन कटिबन्धस्थितत्वाद्दूर युद्धोपयुक्तास्त्राख्यो त धनुः सहायीभूतशरमोचकत्वं चतुर्थकरेगोचितमेव । निकटयुद्धे तु तदुपयोगाभावात्तेनैव करेण विकोशीकृत्य नन्दकं धृत्वा मारणेन मुक्तिप्रदानद्वारा भगवति शत्रुनन्दकत्वमपीति रहस्यम् । तथा आसुर एवेति लिङ्गसंख्याविभेदन्यायेनैकवचनान्तमपि मदेत्यादेर्विशेषणं पण्डित - राजकाव्येनाञ्चितमेवातः सप्तम्यन्तमिदं । आसुर एव 'निबन्धायासुरी मता इति भगवत एवोक्तेरजआदिप्रधानवृत्त्युदयकाल एव । पक्षे असुरसङ्गर एवे - त्यर्थ इति । एवंच - 'दोषं स एव यच्छतु यो निपुणः स्याद्गुणस्य संग्रथने' इति मदीयाद्वैतामृतमञ्जर्यामर्धसमार्या जातिरपि । अपिच 'खर्वीकृतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख । लीलात्तकोलमूर्ते मामुद्धर्तु कथं न शक्तोसि ' इति रसगङ्गाधरीयमेवेति ॥ १८१ ॥ एवं साभिप्रायत्वप्रसङ्गसंगतं श्रीमदप्पय्यदीक्षितैकसंमतं परिकराङ्कुरं लक्षयति- विशेष्य इति । तादृशे प्राग्वत्प्रकृतार्थोपयुक्तार्ह व्यङ्गयशालिनीत्यर्थः । एतादृशे विशेष्य एव सति परिकराङ्कुरः
४५२
[ उत्तरार्धे