SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । श्रुत्यैकयाप्यनेकार्थबोधनं श्लेष उच्यते । एकधर्मपुरस्कृत्या तच्चेच्छुद्धः स इष्यते ॥ १८३ ॥ एतन्नामालंकार इत्यर्थः । अप्पय्येति । अप्पय्यदीक्षितसंमत इत्येतत् । अस्तीत्यार्थिकम् । तमुदाहरति-सर्वानिति । अद्य इदानीमेव । एतेन विलम्बा. सहत्वलक्षणमत्यातुरत्वं द्योयते । गौरीति । गौरी गौराङ्गी भगवती त्रिपुरसुन्दरी रमयतीति तथा । श्रीमदुमाविलसनशाली शिव एवेत्यर्थः । एतेन तहत्तानामेवेष्टविषयसंभोगो संभूतसुखानामप्यन्ते क्रममुक्तिप्राप्तेरद्वैतात्मत्वेनाविनाशिसुखत्वं सूचितम् । अत एवोक्तं सौन्दर्यलहयाँ श्रीमद्भगवत्पादाचार्यपादारविन्दैः-'विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि संमीलति दृशां महासंहारेऽस्मिन्विलसति सति त्वत्पतिरसौ' इति । सर्वान्मनुष्यानन्दादिब्रह्मानन्दान्तानखिलानपीत्यर्थः । एतेन 'सोऽनुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता' इति श्रुतिरप्यवलम्बिता भवति । एतादृशान् कामान्काम्यन्त इति व्युत्पत्येच्छाविषयीभूतान् संपूर्णविषयानन्दानिति यावत् । नः अस्मभ्यं ददातु विशेष्यपध्वनितस्वानुभूतालौकिकविषयसुखरीत्या वसखित्वेन श्रुतिप्रसिद्धास्मदादीन् जीवानपि सुखिनः करोत्विति योजना । अत्र गौरीत्यादिविशेष्यस्यैवोक्तरीत्या साभिप्रायत्वाल्लक्षणसमन्वयः । यथावा कुवलयानन्दे-'फणीन्द्रस्ते गुणान्वक्तुं लिखितु हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्क ते गुणाः' इति । विरश्चिरित्यादि त्वत्पतिरसावित्यन्तमपि तथा । यथावा मदीये कृष्णलीलामृते'अथाऽस्य लीलाप्यतिकोमलाऽमला समुल्ललास स्खलसच्चलाञ्चला । यदीक्षणं च श्रवणं समक्षणे चरन्ननन्तोपि च नान्तमाप्तवान्' इति । अत्रानन्तेति तथा ॥ १८२ ॥ एवंच विशेष्ये साभिप्रायरूपं परिकराङ्कुरालंकारं निरूप्य तत्प्रसङ्गसंगतं विशेष्यवाचकपदेतरावच्छेदेनैवानेकार्थघटितत्वादिभेदभिन्नं श्लेषालंकारं निरूपयिष्यंस्तत्सामान्यं लक्षयति-श्रुत्यत्यर्धेन । एकयापि श्रुत्या सकृच्छ्रवणमात्रेणेत्यर्थः । अनेकेति । नानार्थविषयकज्ञानजननमित्येतत् । तदुक्तं रसगङ्गाधरकृद्भिः । श्रुत्या एकया अनेकार्थप्रतिपादनं श्लेष इति । एवं सामान्यतो लक्षि. तश्लेषस्य विशेषलक्षणाकालायां तांस्तद्विषयान्विवक्षुः प्रथमं शुद्ध श्लेषाख्यमार्थिकतद्भेदं व्युत्पादयति–एकेत्यर्धेनैव । तत्प्रागुक्तमेकश्रुत्यैवानेकार्थप्रतिपादनमित्यर्थः । एकेत्यादि । अर्थद्वयेऽपि तत्तत्पदैविशेष्यविशेषणक्रियावाचकैर्विधेयो धर्मः एकस्तुल्यरूप एव तत्पुरस्कृत्या तत्पुरस्कारेणेति यावत् । एतादृशं यदि चेत्तहि सः प्रागुक्तसामान्यलक्षणः श्लेषालंकारः शुद्धः वक्ष्यमाणोपाधिशून्यः अर्थैकविषयकत्वात् आर्थापराभिधः इष्यते आलंकारिकैः स्वीक्रियत इत्यन्वयः ॥ १८३ ॥ नन्वेवमुक्तानेकार्थप्रतिबोधनमेवानेकधर्मपुरस्कारेणापि चेत्तर्हि सोपि भेदः कश्चियुत्पाद्य इत्याशङ्कायां तद्वैविध्यं प्रतिजानीते-अनेकेति । अत्र हेतुं व्युत्पादयति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy