SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५४ साहित्यसारम् । अनेकधर्मपूर्व चेत्तद्विधा परिकीर्त्यते । अनेकशब्दैकशब्दप्रतिभाद्वारभेदतः ॥ १८४ ॥ तत्राद्यस्तु सभङ्गः स्याद्वितीयोऽभङ्ग ईर्यते । त्रिधाप्ययं तु प्रकृताप्रकृतैकोभयाश्रयात् ॥ १८५ ॥ प्रत्येकं त्रिविधत्वेन नवधान्त्योभयत्रये । विशेषणैकपदगं श्लिष्टत्वं कामतोऽन्यतः ॥ १८६ ॥ रक्तकृष्णार्जुना गीता गुरुदृष्टिः पुनातु नः । शुभदोमापतिर्विश्वश्रिये विश्वेश्वरोऽस्त्वलम् ॥ १८७ ॥ अनेकेति । अनेकशब्दप्रतिभानैकशब्दप्रतिभानलक्षणद्वारयोर्भेदाद्धेतोर्निरुक्तार्थद्वयप्रतिपादनमनेकधर्मपूर्वे यदि चेत्तर्हि द्विधा परिकीर्त्यत इति पूर्वेण संबन्ध: ॥ १८४ ॥ तत्रोक्तभेदद्वयेऽपि क्रमेण संज्ञान्तरं विधत्ते - तत्रेत्यर्धेनैव । आद्यः अनेकशब्दप्रतिभानद्वारकानेकधर्मपूर्वकेकश्रुतिकर्तृकानेकार्थप्रतिभानलक्षणः प्रोतप्रथमभेद इत्यर्थः 1 तुशब्दः पुनरर्थे । स स्याद्भङ्गश्लेषापरनामकः श्लेषभेदः सभङ्गाख्यो भवेदिति योजना । भवत्वेवं तल्लक्षणमभिधानं चाथाप्यन्त्यस्य किं तदित्यत आह-द्वितीय इति पादार्धेनैव । द्वितीयः एकशब्द प्रतिभानद्वारकानेकधर्मपूर्वकैव श्रुतिकर्तृकानेकार्थप्रतिभानलक्षणः प्रोक्तशब्दश्लेषभेदद्वयमध्येऽन्तिमभेद इति यावत् । अभङ्गः अ ङ्गश्लेषापरनामकः शब्दश्लेषभेद ईर्यते कथ्यत इत्यर्थः । ननु भवत्वेवमर्थश्लेषैकभेदशब्दश्लेषभेदद्वय सहितं सामान्यतः श्लेषभेदत्रयमथापि किमस्यापि प्रत्येकं 'नानार्थसंश्रयः श्लेषो वर्ण्यावयभयास्पदः' इति कुवलयानन्दकारिकाद्युक्तं भेदान्तरमत्र संमतं नवा । नान्त्यः । सकलालंकारिकैः प्रायोङ्गीकृतोक्तभेदत्रयत्या शब्दश्लेषभेदद्वयमध्ये भङ्गः [ उत्तरार्धे सांप्रदायिकत्वापत्तेः । आद्ये किं पुनस्तद्भेदत्रयमुक्त भेदत्रयेऽप्याहोखिद्वयोरेव शब्दश्लेषाभिधभेदयोरुतैकस्मिन्नेवार्थश्लेषभेद इत्याशङ्कयाद्यपक्षमेवाङ्गीकुर्वाणः समाधत्ते - त्रिधापीत्यादिनोत्तरश्लोकगतनवधेत्यन्तेन । अत्रापि तुशब्दः प्राग्वदेव । अपिः समुच्चये । निरुक्तरीत्याऽर्थादिभेदेन त्रिविधोप्ययंश्लेष इत्यर्थः । प्रकृतेति । वर्ण्यमात्रार्थद्वयावर्ण्य मात्रार्थद्वय वर्ण्यवर्ण्योभयाख्याश्रयभेदादित्यर्थः । उपलक्षणमिदं स्थलविशेषे तृतीयाद्यर्थस्यापि । प्रकटयिष्यामस्तथोदाहरणावसरे ॥१८५॥ प्रत्येकमित्यादि । नवधा नवविधः संपद्यत इति शेषः । तत्रापि विशेषे स्पष्टयति-— अन्त्येत्यादिना । अन्त्यं शब्दश्लेषाख्यं यदुभयं भेदद्वयं तस्य यत्रयं प्रकृतादि तत्रेत्यर्थः । विशेषणेति । श्लिष्टत्वं श्लेषघटितत्वम् । विशेषणैकपदगं संमतं नतु विशेष्यपदगमपि । अन्यथा शब्दशक्तिमूलध्वनिभेदोच्छेदापत्तेः । अन्यतः आद्येऽर्थश्लेषभेदत्रये । कामतः यथेच्छं विशेष्यादिश्लिष्टत्वं संमतं भवतीति भावः ॥ १८६ ॥ नन्वेतच्छेषभेदनवकं प्रायो रसगङ्गाधरमूलकमेव तथापि तेनापि साकमत्र क्रमवैषम्यमेव प्रतीयते । तथाहि तत्र तावत्तलक्षणं संक्षि - I
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy