________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । प्योक्तम् । तच्च द्वेधा अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आयं द्वेधा। अनेकशब्दप्रतिभानद्वारैकशब्दप्रतिभानद्वारा चेति त्रिविधः श्लेषः । तत्राद्यः सभङ्गः । द्वितीयोऽभङ्ग इति वदन्ति । तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रिविधः । तत्राये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य । तथात्वे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात् । विशेषणमात्रश्लिष्टतायामपि प्रकृताप्रकृतधर्मिणोरुपादान एव श्लेषः । प्रकृतधर्मिमात्रस्योपादाने तु समासोक्तेरेव विषय इति । अत्रानेकधर्मपुरस्कारेणैकश्रुतिकर्तृकानेकार्थप्रतिपादनपक्षस्यानेकशब्दप्रतिभानद्वारकत्वैकशब्दप्रतिभानद्वारकत्वभेदेन द्वैविध्यमादावभिधायानन्तरं प्रथमविकल्पावशिष्टैकधर्मपुरस्कारकरणकैकश्रुतिकर्तृकानेकार्थबोधनलक्षणश्लेषभेदेन सह त्रिविधस्यापि पुनः प्रत्येकं प्रकृतमात्राद्याश्रयभेदेन त्रैविध्यमुक्तम् । त्वयातु शुद्धाख्यार्थस्यैवैकधर्मपुरस्कारकरणकैकश्रुतिकर्तृकानेकार्थप्रतिपादनात्मकश्लेषभेदस्यैव प्रथमं प्रतिपादनं विधाय तदुत्तरमुक्तशब्दश्लेषभेदद्वयेन सह त्रिविधस्यापि तस्य पुनस्तद्वदेव प्रत्येकं प्रकृताद्याश्रयभेदेन नवविधत्वमुपपादितमिति स्फुटमेव मूलीभूतेन तेन सह त्वदुक्तेर्वैषम्यमिति चेत्सत्यम् । तत्रतुशब्दमन्तराऽर्थोपस्थित्यभावात्काव्ये शब्दस्यैव प्राधान्यविवक्षया तद्भेदद्वयस्यैव प्रथमं प्रपञ्चनमकारि । मया तु काव्ये सामान्यतः शब्दात्मकत्वेन तत्प्राधान्येपीहार्थालंकारप्रकरणेऽर्थस्यैव प्राधान्यं ध्वनयताऽर्थश्लेषाभिधतद्भेदस्यैव प्रथमं प्रतिपादनं प्रपञ्चितमित्यभिसंधिभेदात्पद्धतिभेदेऽपि सिद्धान्ताविरोधानैव मम तद्न्थेन सह विरोधगन्धोपीत्यतः प्रोक्तलक्षणा नवापि श्लेषभेदाः श्लोकचतुष्टयेन प्रोदाहरिष्यता प्रथमं प्रकृतमात्राश्रितार्थापरनामकशुद्धाख्यसकृच्छ्रुतिकर्तृ. कैकधर्मपुरस्कारकरणकानेकार्थबोधनलक्षणश्लेषभेदःसमुदाह्रियते-रक्तेत्यर्धेनैव। रक्तौ गुरुशिष्यवरत्वसाम्यलाभेन सर्वात्मना परस्परमनुरक्तौ कृष्णार्जुनौ यस्यां सा तथा, पक्षे कोणाद्यवच्छेदेन शोणश्यामशुक्लवर्णेत्यर्थः । एतादृशी गीता भगवद्गीता प्रसिद्धैव । गुरुदृष्टिः गुर्वी महती दृष्टिरद्वैतात्मविषयकत्वेन प्रमा यया सा तथेत्यर्थः। एतादृशी सती नः अस्मान्प्रति पुनातु द्वैतापावित्र्यापहारेण सद्यः खानन्दाद्वैतसच्चिदमृतैकरूपताऽपादनतः शुद्धतां नयत्वित्यन्वयः । पक्षे गीताश्रुत्यादिषु परमपूज्यत्वेन संकीर्तितेत्यर्थः । एतादृशी गुरुदृष्टिः । श्रीगुरोः कृपादृष्टिरिति यावत् । शिष्टंतु प्राग्वदेव । अत्र गीतागुरुदृष्टयोरुभयोरपि वर्ण्यत्वेन प्रकृतत्वादेकशब्दस्य सभङ्गत्वादिवक्ष्यमाणोपाधिना विभिन्नार्थत्वाभावाच प्रकृतमात्राश्रितत्वमेकधर्मपुरस्कारकरणकत्वं तथा आवृत्या पदयोजनाभावात्सकृच्छ्रुत्येककर्तृकानेकार्थज्ञापनत्वमर्थमात्रप्राधान्येन शुद्धापरनामकार्थश्लेषत्वं चेति लक्षणसंगतिः । एवं शान्ताख्यव्यज्यमानरसोपस्कारकत्वचारुत्वाभ्यामलंकारत्वमपि बोध्यम् । यथावा काव्यप्रकाशे-'श्लेषः स वाक्य एकस्मिन्यत्रानेकार्थता भवेत्' इति लक्षणकारिकार्धम् ।