SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ उत्तरार्धे एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोऽर्थः स श्लेष इति व्याख्यायोदाहृतम् । 'उदयमयते दिङ्मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः । रचयतितरां खैराचारप्रवर्तनकर्तनं नवनवलसत्तेजःपुञ्जो विभाति विभाकरः । अत्राभिधाया अनियन्त्रणाद्वावप्यर्कभूपौ वाच्याविति । यथावा रसगङ्गाधरे । अर्थश्लेषो यथा-' - 'अर्जुनस्य गुरुर्मायामनुजः परमः पुमान् । गुञ्जापुञ्जधरः पायादपायादिह कोपि वः' इति । अत्र हरपक्षे अर्जुनस्यं गुरुत्वदशायां शिवे किरातरूपेण मायया प्रकटीभूते गुञ्जापुजधरत्वार्हत्वेपि हरिपक्षे भीष्मपर्वणि गीताशास्त्रोपदेष्टृत्वेनार्जुनस्य गुरुत्वावस्थायां भगवति हरौ गोकुलविलासकालिकबाल्याद्ये कोचितं द्वारवत्यादिराज्यादिकर्तृत्वदशायां कथंकारं श्वाध्यमिति सहृदया एव विभावयन्त्विति दिक् । यथावा मदीये कृष्णलीलामृते - 'अयं समुद्यन्प्रतिवासरं प्रभुः प्रफुल्लपद्माशयसद्मदीपकः । अलंकरोति स्वत एवं गोकुलं कुलं द्विजानामपि हर्षसंकुलम् इति । यथावा मामक एवं नीतिशतपत्रे - 'सद्वृत्तमेव संसेव्य गुरवो लघवोपि च । सर्वे वर्णाः समायान्ति सर्वार्थैः श्रुतियोग्यताम्' इति । यथावाऽस्मदीय एव भागीरथीकथाचम्पूप्रबन्धे–‘धन्यानां मृदुलपदाः सुवर्णरूपाः सद्वृत्ताः सरसगुणाः प्रसादशीलाः । नानालंकृति विलसद्धनिप्रचाराशुम्बति खरसत आस्यमीज्यवाचः' इति । एवं शुद्धाख्यं प्रकृतैकार्थश्लेषभेदं समुदाहृत्य प्रागुक्तलक्षणक्रमानुसारेण प्राप्तावसरमादौ शब्दश्लेष भेदद्वयमध्येऽप्येकश्रुयैककर्तृकमनेकधर्मपुरस्कारकरणकत्वेऽप्यनेकशब्दप्रतिभानद्वारकं वर्ण्य मात्रार्थद्वयाश्रयं सभङ्गश्लेषाख्यं तद्भेदमुदाहरति - शुभेति । शुभं मुक्तत्याख्यं निरतिशयं कल्याणं ददातीति तथा एतादृशः मापति, लक्ष्मीरमण इत्यर्थः । एतेन भोगदातृत्वमपि ध्वन्यते । नन्वेवं चेदसौ करुणानि - धिस्तर्हि सर्वस्यापि प्रायेणोन्माद एव स्यात्ततः कुतः संभवत्यधिकृतिमन्तरा मुक्तिप्रत्याशापीत्यत आह - विश्वेश्वर इति । जगन्नियन्तेत्यर्थः । अलमखण्डम् - विश्वेति । जगतोऽपि चतुर्विघपुमर्थसंपदेपि भवत्वित्यन्वयः । अत्राखण्डपदेनोक्ताशीःप्रार्थनस्याक्षणिकत्वेन सार्वदिकत्वं सूच्यते । हरपक्षे तु शुभदोमे त्याद्येकंपदम् । एवंच भोगमोक्षाख्याखिलकल्याणदातृत्वं शुद्धसत्वप्रधानमायालीला विग्रहरूपिण्यामुमायामेवेति व्यज्यते । पतिपदेन तस्याः स्वातन्त्र्यं व्युदस्यते । अपरं तूतार्थमेव । अत्र हरिहरयोरुभयोरप्येकेश्वर लीलाविग्रहत्वेन प्रार्थ्यत्वात्प्रकृतमात्राश्रयत्वं शुभदोमे त्यत्र पदच्छेदतदभावाभ्यां सभङ्गश्लेषत्वं शब्दश्लेषत्वाने कधर्मपुरस्कारकरणकत्वानेकशब्दप्रतिभानद्वारकत्वानि चेत्यादिलक्षणसमन्वयः । यथावा रसगङ्गाधरे 'संभूत्यर्थं स कलजगतो विष्णुनाभिप्रपन्नं यत्रालं स त्रिभुवनगुरुर्वेदनाथो विरिञ्चिः। ध्येयं धन्यालिभिरतितरां स्वप्रकाशस्वरूपं पद्माख्यं तत्किमपि ललितं वस्तु वस्तुष्टयेऽस्तु'।अत्राशी :प्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मीभगवन्नाभिकमलयोरुभयोरपि प्रकृतत्वात्प्रकृतमात्राश्रितोऽयमेकयाश्रुत्या पदद्वयप्रतिभासद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभङ्ग इति । अत्र लक्ष्मीपक्षे विष्णुना अभिप्रपन्नमिति च्छेदः । विष्णुना 1 ४५६
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy