________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
कमलोन्मीलनः कोऽपि पातु मां स्वप्रभो हरिः।
प्रियास्याने रविज्योतिर्भासिताजश्रियस्तृणम् ॥ १८८ ॥ भगवता नारायणेनापि अभितः प्रपन्नं आलिङ्गनादिना प्राप्तमित्यर्थः । यद्वा वि. ष्णुना अभि न विद्यते भीर्यत्र तत्तथा कामबाणभयशून्यं एतादृशं प्रपनं प्राप्तमित्यर्थः । विष्णोरपि यत्प्राप्यैव स्मरशरभीराहित्यं संपद्यत इत्याकूतम् । यथावा कृष्णभक्तिचन्द्रिकायाम्-'उभयोरेका प्रकृतिः प्रत्ययभेदाच भिन्नवद्भाति । कल. यति कश्चिन्मूढो हरिहरभेदं विना शास्त्रम् । अयमर्थः-उभयोः हरिहरयोः प्रकृतिः 'मायां तु प्रकृतिं विद्यात्' इतिश्रुतेश्चतुर्भुजपञ्चमुखाख्यलीलाविग्रहयोरुपादानीभूता मायेति यावत् । एकैवास्ति । परंत्विदं चतुर्भुजादि विग्रहजातं प्रत्ययभेदात्तमालनीलफुल्लमल्लिकाधवलवर्णादिविषयकपरोक्षादिज्ञानभेदादेवेत्यर्थः । भिन्नवद्भाति भिन्नसदृशं प्रतीयते। नतु वस्तुतस्तथेत्यर्थः । निरुक्तरीत्या प्रकृत्यैक्यात्तदव. च्छिन्नचैतन्यत्वेनाप्यैक्यमेवेति भावः । एवं तर्हि विनाशास्त्रं श्रीशेशयोर्भेदधीरिति बृहन्नारदीयनामापराधगणनवचानाद्भेददर्शिनोऽवश्यंभावी यो विनाशो नरकादिना पञ्चपर्वाविद्योपचयस्तत्साधनीभूतं सर्पास्त्रादिसदृशमस्त्रमित्यर्थः । एतादृशं हरिहरभेदं कः कलयति जानातीति प्रश्ने यश्चिन्मूढः चित्यद्वैतब्रह्मविषयेऽज्ञः स एव कलयत्यन्यस्तज्ज्ञस्तु नैव कलयतीति वेदान्तपक्षेऽर्थः । व्याकरणपक्षे तु हृञ् हरण इति धातुलक्षणा प्रकृतिर्हरिहरशब्दयोरुभयोरप्येकैवपंरतु तत्तत्प्रत्ययभेदादिदं शब्दद्वयं भिन्नवद्भाति नतु वस्तुतस्तथा। कुतः प्रकृत्यैक्यात् । अतः कश्चिन्मूढः शास्त्रानभिज्ञ एव । शास्त्रं विना हरिहरभेदं कलयतीति ॥ १८७ ॥ अथोक्तलक्षणक्रमप्राप्त शब्दश्लेषाख्यानेकधर्मपूर्वकैकशब्दप्रतिभानद्वारकैकश्रुतिकर्तृकानेकार्थप्रतिभानलक्षण. मभङ्गश्लेषमुदाहरति-कमलेति प्राग्वदर्धेनैव । कमलायाः लक्ष्म्या उन्मीलनं मन्दस्मितरूपं विकसनं येन स तथा । रमाप्रेमपात्रीभूत इत्यर्थः। एतादृशः कोऽप्यनिर्वचनीयगुण इति यावत् । एवं निखिलभोगहेतुभूतलक्ष्मीनायकत्वेन तत्कामुकभजनीयोऽप्यसाववाच्यगुणश्चेत्किमस्मदादीन्प्रति भायादित्यतः पुनस्तं वि. शिनष्टि-स्वेति । खयंप्रकाशत्वेनान्यानधीनभान इत्यर्थः । एतेन खज्ञानमात्रेण तस्य मोक्षदत्वमपि द्योत्यते । नन्वेवं चेदसङ्गोदासीनोऽसौ कथमस्मभ्यं भोगमोक्षावपि दास्यतीत्यत आह-हरिरिति । भक्तदुःखहरणस्वभावो भ. गवानिति यावत् । अतएव मां पात्वित्यन्वयः । भोगमोक्षदैन्यादनवरतं मां र. क्षत्वित्यर्थः । पक्षे कमलानां पद्मानां उन्मीलनं विकसनं येन स तथा हरिः सूर्यः । शिष्टं तु प्राग्वदेव । अत्रैकश्रुतिकर्तृकमनेकार्थप्रतिभानं विष्णुसूर्ययोरुभयोरपि हरिशब्दवाच्यत्वादेवमनेकधर्मपूर्वकैकशब्दप्रतिभानद्वारकं लक्ष्मीसरोजयोर्मन्दहासविकासाख्योभयधर्मबोधनस्य कमलोन्मीलन इत्येकशब्दप्रतिभानैककरणकत्वात् चेति लक्षणसंगतिः । यथावा रसगङ्गाधरे-अयमेवाभङ्गात्मको यथा-'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोरातिः । नीजसेविजाड्यनाशनचतुरो हरिरस्तु