________________
४५८
साहित्यसारम् । . [उत्तरार्धे भूतये भवताम्' इति । यथावा मदीये गीतसीतापतौ–'बाणः श्लिष्यति सूपमा वितनुते श्रीकालिदासः खयं कारुण्यं भवभूतिरेव कुरुते श्रीहर्ष उत्प्रेक्षते । शृङ्गारं जयदेवपूजितपदो गोवर्धन: सेवते वीर्य चारुमुरारिरेव च जगन्नाथः प्रसाद परम्' इति । अत्र बाणाद्यष्टकविपक्षेऽर्थः स्फुट एव । स्मरशरपक्षे दिङ्मात्रमुच्यते। बाणः वक्ष्यमाणाचिन्त्यसामर्थ्यादत्र मदनस्यैव । यदाश्लिष्यति तद्धनुमौर्वीमालिङ्गिष्यति तदा खयम् । श्रीति । श्रियः लक्ष्म्याः कं सुखं याभिरेतादृश्यः या आलयस्तत्सख्यस्तासां मानावस्थायां तत्प्रसादनार्थ तनुते खानुकूल्येन विस्तारय. तीत्यर्थः । तथा भवेति । भवाच्छिवाद्भूतिरुत्पत्तिर्यस्य स एकः स्कन्द एवापत्नीकत्वात्कारुण्यं कुरुते शोचतीत्यर्थः । एवं श्रीहर्षः लक्ष्म्यवतारीभूतत्वाच्छ्रिया सीतया हर्षः यस्य स रामः उत्प्रेक्षते भूयस्तामेव पश्यतीत्यर्थः। तद्वत् । जयति। जयविजयप्रमुखदेवार्चितचरण इत्यर्थः । एतादृकू गोवर्धनः गवां वर्धनं येन तथा श्रीकृष्णः । वीर्यमित्यादि। उक्कावस्थाद्वय एव स वीर्यादि सेवतेऽन्यदा तु शृङ्गारमेवेति योज्यम् । तस्मादद्भुतं कामवीर्यमिति । एवं चैते श्लेषालंकारस्य शुद्धापरनामकार्थशाब्दान्तर्गतसभङ्गाभङ्गाख्यास्त्रयो भेदाः क्रमात्प्रकृतमात्रार्थद्वयाश्रिताः समु. दाहृता इदानीं त्रयाणामपि प्राक्प्रतिपादितप्रकृतमात्राश्रितत्वादिभेदेन त्रैविध्यानवविधभेदमध्येऽवशिष्टभेदषट्के निरुक्कक्रमप्राप्तं शुद्धाख्यार्थश्लेषभेदस्याप्रकृतार्थद्वयपरं भेदमुदाहरति-प्रियास्येति । इदं हि भगवतः शंकरस्यैव वामाङ्कस्थितोमामुखमवेक्ष्य खमनसि वाक्यम् । प्रिया मत्प्रेमपात्रीभूतेयं गौरी । अस्याः यदिदमास्यं मुखं तदने तत्पुरस्तादित्यर्थः । रवीति । रवेः सूर्यस्य ज्योतिः किरणास्तै सितौ क्रमाद्विकासितोद्भासितौ एतादृशौ यावब्जौ अब्जं चाब्जश्चाब्जौ 'अब्जो जैवातृकः सोमः' इत्यमरात्सूर्यकिरणानामेवाम्मयमण्डलविशेषसनिकर्षण तत्प्रतिबिम्बस्यैव चन्द्रतया ज्योतिःशास्त्रप्रसिद्धत्वाच्च कमलकलानिधी तयोर्याः श्रियः शोभास्तास्तथेत्यर्थः । तृणं तृणतुल्यास्तुच्छाः सन्तीति संबन्धः । एतेन कमलस्य दिवैव विकसितत्वेन रम्यत्वाच्चन्द्रस्य तु रात्रावेव कान्तिमत्त्वेन तथात्वाद्गौरीमुखस्य तु निसर्गसिद्ध सार्वदिकमन्दस्मितशालित्वेन परमरम्यत्वात्तदग्रे किंचित्कालिकरम्यत्वाभासयोः कमलकलानिध्योः प्रसिद्धशोभानां तुच्छत्वमुचितमेवेति सूच्यते । अत्र कमलकलानिध्याख्या प्रकृतार्थद्वय एव रवीत्यादिपदश्लेष. विषयत्वादप्रकृतार्थद्वयाश्रयत्वमर्थश्लेषीयभेदत्वं चेति लक्षणसमन्वयः । यथावा रसगङ्गाधरे–'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता । सुन्दरि तवाननाग्रे कमलामा विगलितप्रतिभा' इति । अत्र कमलाभेति विशेष्यवाचकपदे कमलपक्षे सांगत्येऽपि लक्ष्मीपक्षे उपमेयत्वेन विवक्षितसुन्दर्याननस्योपमानीभूता लक्ष्मीकान्तिर्लक्ष्मीर्वानुचितैवेति प्रतिभाति । काव्यादौ सर्वत्र कमलचन्द्रयोरेव मुखोपमानत्वेन विस्पष्टत्वात्तद्वलक्ष्म्यास्तथा क्वाप्यदृष्टचरत्वाचेति किमत्र तत्तत्त्व