SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५९ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । प्रेयस्यपाङ्गपातश्चेतिक मे कुवलयश्रिया। मनोरमाधरास्वादे तुच्छमासीन्ममामृतम् ॥ १८९॥ रामो विद्वत्समोऽव्याद्वः प्रध्वस्तखरदूषणः। दशास्यहृजयीशानः प्राप्तवैदेधुपाश्रयः॥१९० ॥ मिति प्रेक्षावन्त एव प्रेक्षन्त्विति संक्षेपः ॥ १८८ ॥ एवं शब्दश्लेषभेदद्वयमध्येऽपि प्रथमं प्रागुक्त क्रमरीत्यैवाप्रकृतसभङ्गश्लेषमुदाहरति-प्रेयसीति । इदं हि राधामालिङ्गय संफुल्लमल्लिकानिकुञ्ज विलसतः कृष्णस्य प्रफुल्ला लोलां नीलोत्पलावलिं खेलत्खञ्जनराजिं च पश्येति वदन्तं कंचित्सुहृदं प्रति प्रतिवचः । शृण्वये प्रियसखशिरोमणे, मे प्रेयस्यपाङ्गपातश्चेत् मत्प्रीतिविषयीभूताया राधाया योऽपाङ्गः कटाक्षस्तस्य पातः मद्वदनेन्दीवरे संचारश्चेत्तर्हि मे कुवलयश्रिया संफुल्लनीलोत्पलावलिशोभयेत्यर्थः । पक्षे अकुवलयेति च्छेदः । न विद्यतेऽस्मदादिप्रत्यक्षरतार्थ कुवलयं भूमण्डलं येषां ते तथा । 'अङ्गेषु जीर्यति परं खजनयूनोर्मनोभवप्रसरः । न पुनरनन्तर्गर्भितनिधिनि धरामण्डले केलिः' इति गोवर्धनाचार्यवचनाच्छाकपार्थिवादिवत्समासाश्रयणाच खेलत्वञ्जनराजिरुचेतियावत् । किं न किमपि प्रयोजनं वर्तत इत्येतत् । अयंभावः-राधिकायाः कटाक्षो यत्क्षणावच्छेदेन मद्वदनेन्दीवरे प्रतिबिम्बितत्वेन संचरति तत्क्षण एव तत् प्रतिबिम्बविशिष्टं मन्मुखं तत्कपोलतलकाञ्चनादर्शे प्रतिबिम्बति तेन तत्कपोलतलकाञ्चनादर्शप्रतिबिम्बितमन्मुखे. न्दीवरं प्रोक्तराधिकानेत्रकटाक्षस्य खञ्जनायमानस्य प्रतिबिम्बेन विशिष्टं च प्रतिक्षणं प्रपश्यतो मम निरुक्तकुवलयावलिखञ्जनराजिनिरीक्षणेन क्षणमपि किंचिदपि नैव प्रयोजनं संभाव्यत इति । एवं चात्रावर्ण्यत्वेनाप्रकृतयोरेव कुवलयखअनलक्षणपदार्थयोरुक्तपदच्छेदाच्छेदादिनोपस्थितेरप्रकृतसभङ्गश्लेषलक्षणसमन्वयः। यथावा कुवलयानन्दमूलकारिकार्धे-'अब्जेन त्वन्मुखं तुल्यं हरिणाहितसक्तिना'इति । अत्राब्जश्चन्द्रः कमलं चाब्जमुपमानत्वादप्रकृतम् । तत्र तद्विशेषणेपि हरिणेत्यादौ श्लेषः, सचाद्यपक्षे हरिणे खाङ्कनिहितकुरङ्गे विषये आहिता स्थापिता सक्तिरासक्तिर्येन स तथा । अन्त्यपक्षे तु हरिणेति च्छेदः । हरिणा विष्णुना। आहितेति स्थापितप्रीतिनेति सभङ्गश्लेषः । इदानीं शब्दश्लेषोक्तभेदद्वयेऽन्तिममप्रकृताभङ्गश्लेषभेदमुदाहरति-मनोरमेति । इदमपि विरहिणो नलादेः कस्यचि. नायकस्य स्खप्रियसखं प्रति स्वमनस्येव वा प्राक्तनखनायिकासंभोगस्मृत्या वचनम् । अत्रामृतं पीयूषं पक्षे श्रेयो निःश्रेयसामृतम्' इत्यमरात्कैवल्यं चेति श्लेषः। पदच्छेदविशेषं विना सरल एवेत्यभङ्गः प्रकृतवर्ण्यनायिकाधरमधुरिमेतरविषयकत्वादप्रकृताश्रित एवेति लक्षणसंगतिः । यथावा कुवलयानन्दे–'नीतानां व्याकु. लीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशेव न ऋद्धानां कमलानां त्वदीक्षणे' इति । 'मृ. गभेदे तु कमले' इति मेदिनी । 'अलिबाणौ शिलीमुखौ' इत्यमरः । शिष्टंतु स्पटमेव ॥ १८९ ॥ अधुना प्रकृताप्रकृतोभयाश्रयमााख्यं शुद्धश्लेषमुदाहरतिराम इत्यर्धनैव । रलयोः सावात्पक्षेऽप्रकृते विदुषि प्रध्वस्तखलदूषण
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy