SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४६. साहित्यसारम् । [उत्तरार्धे इत्यर्थः । अपरं तु सरलमेव । यथावा मदीयाद्वैतामृतमञ्जर्या रतिनीतिमुकुले'कुटिलोऽपि रागवानपिदर्शनतः क्षोभकोऽपि बद्धोऽपि। सीमन्तवजुश्चेन्मुक्ताभूष्यो न किं भूयात्' इति । अथ शब्दश्लेषीयोभयाश्रितसभङ्गाभङ्गश्लेषोदाहरणद्वयं क्र. मात्पादाभ्यामेव प्रदर्शयन् श्रीरामं प्रकृतमप्रकृतं विद्वांसं च विशिनष्टि-दशा. स्येत्यादि । अत्र श्रीरामपक्षे दशास्यं रावणं हरति हन्तीति तथा हतदशवदन इत्यर्थः । अतएव जयीशानः जयिनां विजयशालिनां मध्ये ईशः श्रेष्ठ इतियावत् । विद्वत्पक्षे तु दशास्येत्यायेकं पदम् । दशानां श्रोत्रादिज्ञानेन्द्रियपश्चकवागादिकर्मेन्द्रियपञ्चकमेलनेन दशसंख्याकानां करणानामास्यमिव मुख्यमेतादृशं यद्धृन्मनस्तस्य यो जयः 'अभ्यासवैराग्याभ्यां तनिरोधः' इति पातजलसूत्रादावुक्ताभ्यासायुपायेन ‘योगश्चित्तवृत्तिनिरोधः' इत्यादि तदायुक्तलक्षणः खरूपैकाकारतादाद्यरूपो वशीकारः स विद्यते येषां तेषामीशानो योगीन्द्रचूडामणिरित्यर्थः । एवं चात्रोक्तपदच्छेदेनार्थभेदात्सभङ्गत्वं श्रीरामादिवर्णनात्प्रकृतादिनिष्ठत्वं चेति लक्षणसंगतिः। पुनः कीदृशः रामो विद्वांश्च । अतएव । प्राप्तेति । प्राप्तः लब्धः वैदेह्याः सीतायाः उपाश्रयः वामाङ्कगतत्वेन कण्ठाश्लेषो येन स तथा । समालिगितजनकनन्दिनीक इति यावत् । पक्षे प्राप्तः समाधिपरिपाकादिना समनुभूतः वैदेयाः प्रारब्धक्षयोर्ध्वमवश्यभाविन्याः लोकदृष्टयापि प्रौढजनतर्कितायाः आत्यन्तिकदृश्येन्द्रजालभानाभावपूर्वखप्रकाशपूर्णानन्दाद्वैतस्थितिरूपनिर्गुणसायुज्यमुक्के. रुपाश्रय इव उपाश्रयः अखण्डैक्यलक्षणोऽवलम्बो येन स तथा । अद्वैतब्रह्मविद्यादिपरिपाकतः प्रत्यक्षीकृतजीवन्मुक्तिसुख इत्यर्थः । तथाचात्रापि प्राग्वदेव शब्दश्लेषोभयाश्रयत्वं पदच्छेदविशेषेणार्थान्तराकरणादभङ्गश्लेषत्वं चेति लक्षणसमन्वयः। एवं प्रियास्याग्र इत्यादिप्राप्तवैदे[पाश्रय इत्यन्ते प्रागुक्तशुद्धाभिधार्थश्लेषशब्दश्लेषीयसभङ्गाभङ्गभेदद्वयसहितभेदत्रयस्य क्रमादप्रकृतमात्राश्रितत्वप्रकृताप्रकृतोभयाश्रि. तलभेदेन द्वैविध्यादुदाहरणषट्केऽपि प्रागुक्तं अन्योभयत्रये । विशेषणैकपदगं श्लिष्टत्वमिति शास्त्रनियमितं विशेष्याश्लिष्टत्वमपि स्पष्टमेव । यथावा दमयन्तीकथाचम्पूप्रबन्धे क्रमाद्वयोरप्युदाहरणे—'व्यासः क्षमाभृतां श्रेष्ठो वन्द्यः स हिमवानिव । सृष्टा गौरीदृशी येन भवे विस्तारिभावता' इति । 'सदूषणापि निर्दोषा सखरापि सकोमला । जयत्यसौ कृता येन रम्या रामायणी कथा' इतिच। अत्राप्रकृतमात्राश्रितसभङ्गश्लेषस्याद्यमुदाहरणम् । प्रकृताप्रकृतयोभयाश्रिताभङ्गश्लेषस्यान्य. मिति । तद्यथा । सः व्यासः हिमवानिव हिमाचल इव, पक्षे हिमवानिव हेमन्त. शिशिरात्मकशीतकाल इव वन्द्योऽस्तीति संबन्धः । कीदृशो व्यासो हिमवच्छब्द. वाच्यो हिमाचल: शीतकालश्च । क्षमाभृतां श्रेष्ठः परापराधसहिष्णुत्वशालिनां मध्ये तथा पृथ्वीधारकपर्वतानां मध्ये तद्वत् भूमिपोषकर्तृणां मध्ये क्रमादद्वैतशास्त्रकर्तृवादनन्तरत्नौषधिनिलयवाद्गोधूमादिचरमधान्यजनकखाच्च वरिष्ठ इत्यर्थः । स क इत्यत्राह-सृष्टेत्यादिना । येन व्यासेन भवे संसारे विस्तारिभारता
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy