Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
यत्नः स्वस्पर्धिफलको विचित्रमिति कथ्यते । मुक्तये गुरुपादानुरक्त्या बद्धोऽस्म्यहं दृढम् ॥ २३७ ॥ आधाराधेययोरन्यतराधिक्येऽधिकं मतम् । कियती यत्र चेत्यं चित् हृदि माति न मेऽद्य मुत् ॥२३८॥
लकमेवेदं दूषणोपन्यसनमिति सूरय एव विदांकुर्वन्त्विति संक्षेपः । एवमेव तत्रा. ग्रेऽपि दूषणोद्धारे बोध्यम् । यच्चेह समालंकारे तावदुच्चैर्गजैरटनमित्यादि पद्ये व्या जस्तुत्या समालंकारस्य बाधनं तत्तु भवतोऽपि 'नितरां धनमाप्तुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः । निधनं समलम्भि तावको खलु सेवा जनवाञ्छितप्रदा' इत्युदाहरणे समानमेव । यदि तत्र कालभेदेन समालंकारव्याजस्तुत्योः परस्परं बाध्यबाधकभावस्तर्हि नासौ प्रकृतेऽप्यपवारयितुमुचित इति । एवंच किमत्र दूषणबीजं तत्सन्त एव चिन्तयन्त्विति दिक् ॥ २३६ ॥ एवं समालंकारनिरूपणान्तगतानुरूपयोगस्मृतं विचित्रं लक्षयति-यत्न इति । स्वेति । स्वशब्देनात्र यत्न एव । तेन सह स्पर्धते विरुध्यतीति तथा तादृशं फलं यस्य स तथेत्यर्थः । तदुदाहरति-मुक्तय इति । दृढमिति क्षणिकत्वव्युदासार्थम् । तदुक्तं कुवलयानन्दे'विचित्रं तत्प्रयत्नश्चेद्विपरीतफलेच्छया । नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम्' इति । अत्र वैपरीत्यं प्रतिभासत एव । यथावा साहित्यदर्पणे–'प्रणमत्युअतिहेतोजीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूढः सेवकादन्यः' इति । यथावा रसगङ्गाधरे-'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशानन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ति । तीर्थे मज्जन्त्यशुभजलधे: पारमुद्रोढुकामाः सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम्' इति । इदमुदाहरणद्वयमपि भ्रान्तिघटितत्वेनैव वैचित्र्यसाधकं मम त्वतथात्वेनेति विशेषः ॥ २३७ ॥ एवं विचित्रालंकारप्रसक्तमधिकालंकारं लक्षयति-आधारेति । क्रमेणोदाहरणे । कियतीत्यादिपादाभ्याम् । यत्रेदं चेत्यं चेतयितुं योग्यमखिलं दृश्येन्द्रजालमपि कल्पितं सेयं ब्रह्मचित् कियती अनन्तपरिमाणास्तीत्यर्थः । इयं ह्याधाराधिक्या. त्मकाधिकस्योदाहरणं । अतएव हृदीत्यादि । अद्य एवमद्वैतब्रह्मत्मवस्तुनः सर्वाधिष्ठानत्वेन त्रिविधपरिच्छेदशून्यत्वानुसंधानकाले मे हृदि अन्तःकरणे। मुत् हर्षः 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमराद्ब्रह्मात्मानुसंधानजन्यानन्द इत्यर्थः।न माति अपरिच्छिन्नोक्तवस्तुविषयकज्ञानजन्यत्वेन तस्याप्यपरिच्छिन्नत्वात् परिच्छिन्ने मनसि न समाविशतीत्यन्वयः । इदं त्वाधेयाधिक्यात्मकाधिकस्योदाहरणं बोध्यम् । यथावा काव्यप्रकाशे-'अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते' । 'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः' इति च ॥२३०॥

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576