Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 522
________________ ५०६ साहित्यसारम् । [उत्तरार्धे किंवा ब्रवीम्यहं चित्रं सखि त्वं पश्य कौतुकम् । गोष्ठद्वारमियं पश्चापिधत्तेऽद्य वृषे गते ॥२६८॥ विना तत्करणे यत्नमभीष्टाप्तिःप्रहर्षणम् । राधां प्रतीक्षते कृष्णो यावत्तावत्तु साभ्यगात् ॥ २६९ ॥ ॥ २६७ ॥ अथैतदुदाहरति-किंवेति । इदं हि राधया मानातिशयेनावहे. लितत्वात् श्रीकृष्णे तन्मन्दिरादौदासीन्येन गते सति पश्चात्तापेन तस्यां दूत्यादिप्रेषणेन पुनस्तदानयने यतमानायां सत्यां तद्रहःसखी प्रति तद्रहःसख्यन्तरवा. क्यम् । अयि सखि, अहं त्वां प्रति किंवा चित्रं ब्रवीमि । तस्य लोकोत्तरतया साकल्येन वक्तुमशक्यत्वान्नैव ब्रवीमि किंतु त्वमेवेदं कौतुकं पश्येति संबन्धः । ननु किं तदिति तत्सूचनमात्रं त्वपेक्षितमेवेत्यत आह—गोष्ठद्वारमित्याधुत्तरार्धेन । इयमित्यङ्गुल्या निर्दिश्यमाना निकटवर्तिनी प्रियसखी राधिकेत्यर्थः । वृषे वृषभे गते बहिः खैरगृहाथै रात्रौ प्रयाते सतीति यावत् । पश्चादद्य गोष्ठद्वारं गोष्ठस्य ‘गोष्ठं गोस्थानकम्' इत्यमराद्गवां निरोधनादिनिलयद्वारं पिधत्ते कपाटादिनाच्छादयतीति योजना । अत्र प्रकृतधर्मीभूतायां राधिकायां प्रकृतधर्मस्य मानातिशयेन श्रीकृष्णावहेलनलक्षणस्यानुल्लेखेन अप्रकृतव्यवहारोऽयं वृषे गते सत्यनन्तरं गोष्ठद्वारपिधानव्यवहारस्तत्संसर्गस्य निरूपणसत्वाल्लक्षणसंगतिः । यथावा कुवलयानन्दे नैषधीयचरितपद्ये-'अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य' इत्यादौ । अत्र कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुतस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाललितालंकारः इति । अत्र रसगङ्गाधरे 'इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्यागकर्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्यावसन्तकर्तृकत्यागकर्मत्वस्याप्यवर्णनात्कथं संगच्छताम्' इति चरमं दूषणमुक्तं तत्तुच्छम् । तत्प्रतिबिम्बीभूतार्थमात्रोपन्यासादिति मात्रचैव दत्तोत्तरत्वात् । वसन्तेन मुक्तमिति विग्रहस्य तवापीष्टत्वेनार्थमात्रस्या-- नपह्नवाच । एवंच प्राक्तनदूषणगणोऽपीर्ष्यादिमूलकत्वादेवेति निपुणं विभाव्य सूरिभिः पराकरणीय इति दिक् ॥ २६८ ॥ एवं ललितप्रसक्तम् 'उत्कण्ठितार्थ. संसिद्धिविनायत्नं प्रहर्षणम्। तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका' इति कुवल. यानन्दोक्तं प्रथमप्रहर्षणालंकारं लक्षयति-विनेति । अभीष्टेति । 'सर्वेन्द्रियसुखाखादो यत्रास्तीत्यभिमन्यते। तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः' इति तदुक्तोत्कण्ठाविषयीभूतार्थप्राप्तिरित्यर्थः । तदुदाहरति-राधामिति । यथावा गीतगोविन्दे-'मेधैर्मदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः' इति । इदं हि मामकं प्रहर्षणलक्षणं त्रिविधप्रहर्षणसाधारणमेव । परं त्वत्र तत्करणे अभीष्टात्यसाधारणकारणविषये यत्नं विना प्रयत्नमन्तरेत्यर्थः । साधारणः अकस्मादिति तु शेषपूर

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576