Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ५११
मीलितं लिङ्गसाम्येन प्रत्यक्षेऽपि भिदग्रहः।
नित्यमभ्यजनं सीते योषितां विहितं किमु ॥ २८०॥ स्तीति । अन्यसंनिधेः खगुणसजातीयगुणकेतरवस्तुसंनिधानादित्यर्थः। अन्येति। स्वीयेति । स्वसिद्धगुणसमृद्धिरिति यावत् । अनुगुणः एतन्नामकोऽलंकारः । मतः सयुक्तिकत्वात्संमतोऽस्तीत्यर्थः । तदाहुः कुवलयानन्दकृतः--'प्राक्सिद्धखगुणोत्कर्षोऽनुगुणः परसंनिधेः । नीलोत्पलानि दधते कटाक्षरति नीलताम् । 'कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः । अपिच पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य' इति । तमुदाहरति-नासेति । अत्राधरपदेन निरुक्तमौक्तिकेषु पद्मरागसाहचर्यात्किचित्पाटलिमसंभवात्स्मितकान्तावपि स्वारुणिमसहकृतेस्तत्साजात्येन तदाधिक्याधायकत्वं ध्वनितम् ॥ २७९ ॥ एवमेतत्साधर्म्यप्रसक्त मीलितमपि लक्षयति-मीलितमिति । प्रत्यक्षे चाक्षुषेऽपि वस्तुनि विषये । लिङ्गसाम्येन हेतुतौल्यैन । भिदग्रहः सत्यसंभावितपदार्थयोर्भेदानवबोध इति यावत् । मीलितं एतन्नामकमलंकरणं भवतीत्यन्वयः । तदुदाहरति-नित्यमिति । इदं हि भगवतः श्रीरामस्य रत्यागारे जानकी प्रति तल्लावण्यमलौकिक दृष्ट्वा वाक्यम् । भो सीते, योषितां स्त्रीणां अभ्यञ्जनं अभ्यङ्गस्नानं नित्यं विहितमस्ति किंन्विति संबन्धः । अयमाशयः-यथा नित्येऽखिलमिति मुहूर्तमार्तण्डवचनाद्देशविशेषावच्छेदेन पुरुषैः क्रियमाणे नित्यमभ्यङ्गनाने अखिलं पुष्पवासितं तद्भिन्नादिसंपूर्णतैलं शुभमेवेत्यर्थकात्पुंसामभ्यङ्गस्नानं नित्यं विहितमस्ति तद्वत्स्त्रीणामपि नित्यमभ्यञ्जनं भवति किम्वित्याक्षेपस्तु 'अथ बुधाम्बुपःपितृभाभ्यङ्गात्पतिघ्यङ्गना' इति तद्वाक्याब्रुधवासरशततारकामघानक्षत्रदिवसनिषेधादुपपन्न ए. वेति । एवंचात्र भगवत्याः सीतायाः खरूपे प्रत्यक्षेऽपि भगवतः श्रीरामस्याभ्य. गसाधारणेनात्मनि प्रतिबिम्बग्रहणयोग्यतारूपकान्तिमत्त्वात्मकालौकिकतल्लावण्यलक्षणेन लिङ्गसाम्येन तस्यामभ्यङ्गजन्यनिसर्गसिद्धरोचिषोभैंदाग्रहो ध्वनिमर्यादया सिद्ध इति लक्षणसंगतिः । यथावा काव्यप्रकाशे-'अपाङ्गतरले दृशौ मधुरवर्णवक्रा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशः खतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते' इति । यथावा साहित्यदर्पणे-'लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षःस्थले हरेः । प्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया' इति । यथावा कुवलयानन्दे–'मीलितं यदि सादृश्याद्भेद एव न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे' । 'मल्लिकामाल्यभारिण्यः सर्वाङ्गीणाचन्दनाः । क्षौमवयो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः' इति । यथावा रसगङ्गाधरे—'स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेनागृह्यमाणानां वस्वन्तरलिङ्गानां खकारणाननुमापकत्वं मीलितम् । संग्रहश्च 'भेदाग्रहेण लिङ्गानाम्' इत्यादि लक्षणपरिष्कारस्तत्रैव द्रष्टव्यः। यथावा-'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणि

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576