Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 532
________________ [ उत्तरार्थे साहित्यसारम् । श्लेषेण काका वान्यार्थकुप्तिर्वक्रोक्तिरीयते । प्रसीद प्रमदे हर्षात्प्रसादः कोऽपरो भवेत् ॥ २८८ ॥ निकटवर्तिदेवालयस्थशंकरायेत्यर्थः । अर्पयत् निवेदयामासेति संबन्धः । एवं चैतादृशक्रियावदग्ध्यादिभूरिचातुरीशालिन्येव मत्सखी राधिकेति त्वयाद्य निःशङ्कमेव तन्मन्दिरं प्रति समभिसर्तव्यमिति तत्सख्या द्योत्यते । यथावा कुवलया. नन्दे-'युक्तिः परातिसंधान क्रियया मर्मगुप्तये। त्वामालिखन्ती दृष्ट्वान्यं धनुः पौष्पं करेऽलिखत् । यथा-'दम्पत्योर्निशि जल्पतोहशुकेनाकर्णितं यद्वचस्तत्प्रा. तर्गुरुसंनिधौ निगदतः श्रुत्वैव तारं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चपुटे व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम्' इति ॥ २८७ ॥ एवं युक्तिमूलीभूतचातुर्यप्रसक्तां वक्रोक्तिं लक्षयति-श्लेषेणेति । काका 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमराद्धर्षादिजन्यखरभङ्गाभिव्यञ्जककण्ठध्वनि विकृत्येत्यर्थः । तामुदाहरति-प्रसीदेति । इदं हि मानवतीं ख. कीयां प्रौढां प्रति नायकस्यानुनयवाक्यम् । हे प्रमदे, 'प्रमदा मानिनी' इत्यमरात्त्वं प्रसीद । मयि विषये प्रसन्ना भवेत्यर्थः । अथासौ वक्रोक्त्या तं प्रत्युत्तरयतिहर्षादित्यादिना । एवंच तया 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरात्प्रमदे इति स्त्रीलिङ्गकवसंबुद्ध्यर्थकत्वं विहाय श्लेषेण हर्षे विषये त्वं प्रसीदेति वाक्याथै गृहीत्वा 'प्रसादस्तु प्रसन्नता'इत्यपि तदुक्तेहर्षादिपरोऽन्यः कः प्रसादो भवेद्येन तद्विषयः स कार्यः स्यादिति काकाऽक्षिप्येदं वाक्यमेवाप्रयोजकमिति व्यनक्तीति योजना । यथावा कुवलयानन्दे–'वक्रोक्तिः श्लेषकाकुभ्यां यदर्थान्तरकल्पनम् । मुश्च मानं दिनं प्राप्तं नेह नन्दी हरान्तिके'। 'अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्नतु दारुमयी क्वचित् । इदमविकृतश्लेषवक्रोक्तेरुदाहरणम् । विकृतश्लेषवक्रोक्र्यथा-'भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः । इयं यास्यत्युच्चैर्विपदमधुना वानरचमूर्लघि.. टेदं षष्ठाक्षरपरविलोपं पठ पुनः' । सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया यथा-'भिक्षार्थी व प्रयातः सुतनु बलिमखे ताण्डवं वाद्य भद्रे मन्ये वृन्दावनान्ते व नु स मृगशिशु व जाने वराहम् । बाले कचिन नष्टो जरठवृषपतिर्गोप एवात्र वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः'। काका यथा-'असमालोच्य कोपस्ते नोचितोऽयमितीरिता । नैवोचितोऽयमिति तं ताडयामास मालया' । अत्र नैवोचितोयमिति काका स्वरविकारेण उचित एवेत्यर्थान्तरकल्पनम् । यथावा कस्यचित्प्राचीनस्य–'यामि विधावभ्युदिते पुनरेष्या- . मीति यदुदितं भवता । जानात्युदन्तमात्रं नेदं तत्त्वेन मुग्धवधूः' इति । इदं हि कंचित् श्रीकृष्णादिनायक प्रति तद्वाक्यानुवादपूर्वकं राधादिनायिकासखीवाक्यम् । अये नायक, अहमिदानीं यामि प्रवासं गच्छामि । तथा विधौ अभ्युदिते सति पुनः एष्यामि खां प्रत्युपागमिष्यामीति यद्भवता त्वया उदितमुक्तम् ।

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576