Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 530
________________ ५१४ साहित्यसारम् । [उत्तराई अन्योद्देश्यैव गीरन्यमुक्ता गूढोक्तिरुच्यते । कीरापसर गोस्तन्याः प्राप्तो मालाकृदुद्धतः॥ २८६ ॥ . कापहृतेर्भेदः। यथावा काव्यप्रकाशे-'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोऽवगूढो. लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैल्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद्वः शिवः' इति । यथावा कुवलयानन्दे-'व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् । सखि पश्य गृहारामपरागैरस्मि धूसरा' । 'कस्य वा न भवेद्रोषः प्रियायाः सव्रणेऽधरे सभृङ्गपद्ममाघ्रासीर्वारितापि मया धुना' । उपपतिना खण्डिताधराया नायिकाया सकाशमागच्छन्तं प्रियमपश्यन्येव सख्या नायिकां प्रति हितोपदेशव्याजेन त प्रति नायिकापराधगोपनमिति ॥ २८५ ॥ एवं गुप्तिविशेषघटितव्याजोक्त्यलंकृ. तिनिरुक्तिप्रसङ्गसङ्गतां गूढोक्त्यलंकृतिं लक्षयति । अन्यः शाब्दबोधे संबोध्यतावच्छिन्नत्वप्रतीयमानविषयतानवच्छिन्नः प्रमातेत्यर्थः । सः उद्देश्योऽभिसंधिविषयो यस्याः सा तथेति यावत् । एतादृश्येव गीर्वाक् यदि अन्यं उद्देश्यभिन्नं प्रति उक्तास्ति चेत्तर्हि गूढोक्त्यलंकृतिः कथ्यत इति फलितोऽर्थः । तामुदाहरतिकीरेति । अत्र 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरानायिकायामतुलसरसत्वेन लो. भजनकत्वेऽपि कीरपदेन पक्षप्राबल्यतः सद्योपसरणेऽपि कालान्तरे तल्लाभसंभावना ध्वन्यते । अन्यथोद्धतपदेन तनायके क्षमाशून्यत्वेन प्राणवियोगोऽपि संभवेत्तदपेक्षया वरं सद्यस्तत्त्याग एवेति भावः । इदं हि परकीयासंसक्तं कंचिन्नायकं प्रति तत्पत्यागमनमवलोकयन्त्यास्तत्सख्याः कीरापदेशेन समवबोधकं वाक्यमिति लक्षणसंगतिः । तदुक्तं कुवलयानन्दे–'गूढोक्तिरन्योद्देश्या गीर्यधन्यं प्रति क. थ्यते । वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः' । नेयमप्रस्तुतप्रशंसा। कार्यकारणत्वादिव्यङ्गयत्वाभावात् । नापि श्लेषमात्रम् । अप्रकृतार्थस्य प्रकृतार्थान्वयित्वेन विवक्षितत्वात् । तस्य केवलमितरवचनार्थनिर्दिष्टतया विच्छित्तिविशेषसद्भावात् । यथा-'नाथो मे विपणिं गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह पु. पिणीति गुरवः प्राप्ता गृहाभ्यन्तरम् । शय्यामात्रसहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्नागमलालनीय रजनी लक्ष्मीपते रक्ष माम्' । अत्र लक्ष्मीपतिनाम्नो जारस्यागमनं प्रार्थयमानया तटस्थवञ्चनाय भगवन्तं प्रत्याक्रोशस्य प्रत्यायनमिति । यथावा मदीयाद्वैतामृतमञ्जयाँ नीतिमुकुले-'हृत्वा तमोऽपि सदशं प्रकाशमभिनीय सर्वतः स्नेहम् । दीप कथं कज्जलमपि समुद्गिरस्यतुलसंतापात्' । इदं हि बाह्यपाण्डित्येन परमनिगूढं परतरुणीः सुसंभुक्तवन्तं खकान्तं प्रति कस्याश्चिद्विदग्धायाः परमनिगूढं रहसि रत्यागारे दीपान्योक्तिच्छलेन प्रत्युत खोप. र्येव कोपकृतदुर्वाक्यवर्षणोपशमनार्थं वचः । भो दीप प्रसिद्धप्रदीप, त्वं सदशं दशाजन्यवर्तिकाभिः सहितं तमोऽपि तिमिरमपि हृत्वा क्रमाद्दाहसहानवस्थानलक्षणविरोधाभ्यां विनाइयेत्यर्थः । अत्रापिना तमस्यालोकमन्तरोपायशतेनापि दुर्निरसत्वं

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576