Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५१२ साहित्यसारम् ।
[ उत्तरार्धे सामान्यं नेक्ष्यते यत्र विशेषः कोऽपि साम्यतः। आदर्शमन्दिरस्थाया दमयन्त्या न निर्णयः॥ २८१ ॥ साकूर्ति प्रतिवाक्यं चेदुत्तरं परिभण्यते।
यत्रासौ मल्लिकाकुञ्जस्तत्र च्छाया घनेक्ष्यते ॥ २८२ ॥ रदने ताम्बूलं केन लक्षयेय वयम्' । अत्र प्रियेण ताम्बूलं कुतो न गृह्णासीत्युक्ते एतावन्तं समयं ताम्बूलानि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । यथावा मदीयायामद्वैतामृतमजार्याम्-'राधेऽङ्गरागमिह न क्वचिदपि धत्से कुतस्त्वमुरसीष्टम् । नित्यं दधामि कौङ्कुममिति चेन्नो लक्ष्यते कस्मात्' इति । इदं हि भगवतः श्रीकृष्णस्य राधिका प्रति कुचकनककमलकोशमर्दनकालिकं वाक्यम् । भो राधे,त्वं इह मया मद्यमानस्तनकाञ्चनकमलकोशावच्छेदेन प्रत्यक्ष इत्यर्थः। एतादृशे उरसि त्वं इष्टमस्मदभिलषितं अङ्गरागं काश्मीरकर्दमाद्यङ्गोद्वर्तनद्रव्यालेपनं क्वचि. दपि कुतो न धत्स इत्याक्षेपे सति, अहं कौङ्कुमं काश्मीरजन्मजं तं नित्यं दधा. मीति वदसि चेत्तर्हि सोऽस्माभिः कस्माद्धेतो! लक्ष्यत इत्यन्वयः । एवंच तस्याः परमगौरत्वेन प्रत्यक्षेऽपि तद्भेदाग्रह इत्याशयः ॥ २८० ॥ एवं भेदाग्रहनिबन्धनमिलितालंकारनिरूपणप्रसक्तं सामान्यालंकारं लक्षयति-सामान्यमिति । यत्र उपमानोपमेययोरिति शेषः । साम्यतः परमसाधयेणेत्यर्थः । कोऽपि विशेषो नैवेक्ष्यते तत्सामान्यमित्यध्याहृत्यान्वयः। अस्तीत्यार्थिकम् । तदुक्तं कुवलया. नन्दे-'सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते । पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्' इति । यथावा रसगङ्गाधरे-'प्रत्यक्षविषयस्यापि वस्तुनो बल. वत्सजातीयग्रहणकृतं तद्भिन्नत्वेनाग्रहणं सामान्यम्' इति । तदुदाहरति-आद. शेति । नलस्यासीदिति शेषः । यथावा साहित्यदर्पणे–'मल्लिकाञ्चितधम्मिल्लाश्वारुचन्दनचर्चिताः । अविभाव्याः सुखं यान्ति चन्द्रिकाव भिसारिकाः' । मी. लिते उत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानं इह तूभयोस्तुल्यगुणतयाभेदाग्रह इति । यथावा कुवलयानन्दे–'रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः। लकेश्वरः सभामध्ये न ज्ञातो वालिसूनुना' इति । विस्तरस्तु तत्रैव ज्ञेयः ॥ २८१ ॥ एवं विशेषः सन्नप्यतिसाम्यान्न लक्ष्यत इति सामान्यलक्षणप्रसक्तं गूढाभिसन्धिघटितप्रतिवचनात्मकमुत्तरालंकारं लक्षयति-साकूतमिति । तमुदाहरति-यति। इदं हि चैत्रातपक्लान्तं वृन्दावने श्रीकृष्णमालक्ष्य संकेतसूचकं राधिकायास्तं प्रति वाक्यम् । यथावा साहित्यदर्पणे-वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः कुतः' इति । यथावा कुवलयानन्दे–'किंचि. दाकूतसहितं स्यागूढोत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । 'ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते। पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चे. द्वस' । इदमुन्नेयप्रश्नस्योदाहरणम् । निबद्धप्रश्नस्योदाहरणं यथा-'कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथ

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576