Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 531
________________ सरसामोदव्याख्यासहितम् । युक्तिः स्वमर्मगुप्त्यर्थ व्यापारेणान्यवञ्चनम् । तुभ्यं साकृतताम्बूलं दृष्ट्वान्यं शम्भवे ऽर्पयत् ॥ २८७ ॥ सूचितम् । तथा सर्वतः स्वसंनिकृष्टदेशावच्छेदेन प्रकाशमालोकं अभिनीय अभितः समन्ताद्भागेन नीत्वा । प्रसार्येति यावत् । एवं सर्वतः समन्ताद्भागेन स्नेहमपि तैलमप्यभिनीयाभितः समाकृष्य दग्ध्वेत्यपिशब्द मनुकृष्यान्वयः | अतुलेति निरुपमोष्मजननादित्यर्थः : । कज्जलमपि अञ्जनमपि । एतेन प्रकाशात्मकत्वेन तमो. भिविरोधिनस्तव तत्सदृश कृष्णवर्णाञ्जन जनकत्वमनुचितमेवेति द्योत्यते । कथं समुद्विरसि निरुक्तरीत्या तव तमः समभिवमनमनुचितमेवेति भावः । पक्षे भो दीप इव गृहमण्डनपण्डितवर मत्प्राणनाथ, त्वं सदशं दशाभिः आवरणविक्षेपदशाभिः सहितं सदशं । एतादृशं तमः मूलाज्ञानं हृत्वा स्वसंपादितगुरूपदिष्टविचारिततत्वमस्यादिवेदान्तमहावाक्यजन्य सकल द्वैतबाधकप्रत्यग्ब्रह्मैक्य विषयका प्रतिबद्धप्रायापरोक्षप्रबोधेन प्रध्वंस्येत्यर्थः । नचाज्ञानस्य 'आच्छाद्य विक्षिपति संस्फुरदात्मरूपं जीवेश्वरत्वजगदाकृतिभिर्मृषैव । अज्ञानमावरणविभ्रमशक्तियोगादात्मत्वमात्रविषयाश्रयताबलेन' इति संक्षेपशारीरको तेरावरणादिशक्तिद्वयवत्त्वमेव नतु चेतन दे. हस्य बाल्यादिवद्दशावत्त्वमपीति वाच्यम् । अस्य वाक्यस्य सारस्यज्ञैः श्रीमद्भारतीतीर्थैस्तयोरवस्थात्वस्यापि वर्णनात् । तथाचोक्तं तृप्तिदीपे - 'अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधी: । अपरोक्षमतिः शोकमोक्षस्तृप्तिर्निरङ्कुशा । सप्तावस्था इमाः सन्ति चिदाभासस्य तास्विमौ । बन्धमोक्षौ स्थितौ तत्र तिस्रो बन्धकृतः स्मृताः ' इति । नन्वेवमपीमाश्चिदाभासाख्यजीवस्यैवावस्थाः सन्ति नत्वज्ञानस्येतिचेन्न । चि दाभासपृथक्कारे तस्य गगनकुसुमायमानतया तथोक्तत्वात् । नाप्येवं चेद्दशाभिरिति बहुवचनानर्थक्यमिति शङ्कयम् । पलत्राज्ञानाभिप्रायेण तत्सार्थक्यात् । एवं सदशमिति प्रकाशशब्दित प्रबोधस्यापि विशेषणम् । तत्रापि परोक्षध्याद्यवशिष्ट मोक्षकारकावस्थाचतुष्टयस्यापि संभवाद्दशावस्थापदयोः पर्यायत्वाच्च । अभिनीय अभिनयशब्दितं विषयिजनेषु तन्नाटनमात्रं कृत्वेत्यर्थः । एवमेव सर्वतः सर्वजनेषु स्नेहं प्रेमाणमप्यभिनीय नाटयित्वा । अतुलेति खापराधबोधसंभावितेतर क्रोधप्रबाधकनिरुपमरोषाद्धेतोरिति यावत् । कज्जलमपि कज्जलसदृशकलङ्कसंपादकं दुर्वा - क्यमपीत्यर्थः । एतेन निरुक्तमहिम्नस्तवेदमयुक्तमेवेति व्यज्यते । कथं समुद्गिरसि वमनवत्किमिति वेगादुच्चारयसीति संबन्धः । तस्मादेतादृशेन विदुषा पारदारिकः कामः स्खेन्द्रियदमनाद्यन्यस्थानविषयकः क्रोधश्च नैव कार्य इति नीतिरित्या कूतम् । तथाचेह गूढोक्तिलक्षणं स्फुटमेव । उदाहरणचतुष्टयेऽत्रावान्तरवैजात्यं तु स्वयमेवोह्यम् ॥ २८६ ॥ एवं गुप्तिसाधर्म्य संगतां युक्त्यलंकृतिमपि लक्षयति-युक्तिरिति । तामुदाहरति — तुभ्यमिति । सा राधिका हे श्रीकृष्णेत्यार्थिकम् । तुभ्यं त्वदर्थं कृतताम्बूलं विरचितवीटिकाविशेषं रहसि मद्धस्तद्वारा प्रेषयन्ती सतीति शेषः । अन्यं इतरं कंचिदकस्माद्दैववशात्तत्र समागतं जनं दृष्ट्वा अवलोक्य शंभवे कौस्तुभरत्नम् ] ८ ५१५

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576