Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 533
________________ कौस्तुभरत्नम् ८ ] सरसामोदव्याख्यासहितम् । जात्यादिगस्वभावस्य वाक्स्वभावोक्तिरुच्यते । पारावतो रुतं कुर्वन्रिरंसति निजप्रियाम् ॥ २८९ ॥ निरुक्तियगवृत्यैव नाम्नोऽर्थान्तरकल्पनम् । अनाथव्यथकत्वेन युक्तं शशधरो भवान् ॥ २९० ॥ ५१७ अत्र इयं मत्सखी यतः मुग्धवधूः अतः उदन्तमात्रं 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्' इत्यमराद्वृत्तान्तमात्रं जानाति । इदन्तत्वेन वास्तविकार्थत्वेन न जानातीति योजनार्थश्लेषपक्षे । शब्दश्लेषपक्षे तु विधौ चन्द्रे अभ्युदिते सति पुनरेष्यामि इति उदन्तमात्रं उत् उकारः । तपरकरणं हि तत्र व्याकरणे प्रसिद्धम् । तत् शब्दरूपं अन्ते यस्य विधुशब्दस्य तावन्मात्रं जानाति । नतु इदन्तत्वेन इत् इकारः अन्ते यस्य विधिशब्दस्य तत्वेन तव दैवे अभ्युदिते सत्येव पुनरेष्यामीति त्वद्विवक्षितार्थत्वेन नैव जानातीति । तस्माद्वाला । अतएव सरलेयं मत्सख्येवं नैव त्वया वचनीयेति भाव इति । यथावा मदीयाद्वैतामृतमञ्जर्याम् - 'सरसमपि सादि सान्तं तव तारुण्यं कथं कृतं विधिना । यद्यत्सद्वयमेतत्तथेति सुदृशां तु सिद्धान्तः ' इति । अत्र पूर्वार्धः श्रीकृष्णप्रश्नो राधां प्रति । उत्तरार्धस्तु तदुत्तरमेव सादिजन्यम् सान्तं तत एव क्षयित्वेन तर्कितम् । पक्षे सः सकारः सद्वयं कुचद्वयाविर्भावसहितम् । पक्षे द्वैतसहितम् । पक्षान्तरे सकारयुगवत् तथा सादि सान्तं चेति तु सुदृशां मादृशां मृगीदृशां, पक्षे भवादृशां सदसद्विचारस्पृशामित्यर्थः । शिष्टं तु स्पष्टमेव । एवं चात्रोदाहरणद्वयेऽपि श्लेषवक्रोक्तिः स्पष्टैव ॥ २८८ ॥ एवं चक्रोत्यलंकृतिनिरूपणे 'वाचा किंच सुधा समुद्रलहरीलावण्यमामन्त्र्य' इति रसमञ्जर्युक्तरीत्या तस्यास्तरुणी स्वाभाव्यप्रसक्तां स्वभावोक्तिं लक्षयति- जात्यादिगेति । वाक् वर्णनघटितवाणीत्यर्थः । तामुदाहरति - पारावत इति । 'पारावतः कलरवः' इत्यमरात्प्रसिद्धएव । रुतं 'तिरश्चां वाशितं रुतम्' इत्यमराच्छब्दविशेषमित्यर्थः। कुर्वन्सन्नेव निजप्रियां रिरंसतीच्छापूर्त्यवधि रतिं कर्तुमिच्छतीत्यन्वयः । यथावा साहित्यदर्पणे-‘लाङ्गूलेनाभिहत्य क्षितितलमसकृद्दारयन्नग्रपद्भ्यामात्मन्येवाचलीय द्रुतमथ गगनं प्रोत्पतन्विक्रमेण । स्फूर्जद्धूत्कारघोरः प्रतिदिशमखिलान्द्रावयन्नेष जन्तून्कोपाविष्टः प्रविष्टः प्रतिबलमनलोद्दीप्तचक्षुर्मृगेन्द्रः' इति । यथावा कुवलयानन्दे—'स्वभावोक्तिः : स्वभावस्य जात्यादिस्थस्य वर्णनम् । कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्षितम् ' । यथा - ' तौ संमुखप्रचलितौ सविधे गुरूणां मार्गप्रदानरभात्स्खलितावधानौ । पार्श्वपसर्पणमुखावपि भिन्नादिकं कृत्वा मुहुर्मुहुरुपासरतां सलज्जम्' इति ॥ २८९ ॥ एवं स्वभावोक्तिप्रसङ्गेन शब्दस्यापि योगवृत्त्या कचिदर्थान्तरबोधकत्वखाभाव्यात्प्राप्तां निरुक्त्यलंकृतिं लक्षयति- निरुक्तिरिति । तामुदाहरति - अनाथेति । शशः प्रसिद्ध एव । तस्य धर्ती हि मृगव्यापारे क्षत्रियपालितः श्वविशेषः प्रसिद्ध एव । स यथा अनाथानां शशमृगादीनां व्यथकस्तद्वदनाथायाः प्रोषितपतिकाया विरहिण्याः प्राणान्तव्यथाकर चन्द्र त्वं शशधर इति युक्तमेवेति भावः । 1 ૪૪

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576