________________
सरसामोदव्याख्यासहितम् ।
युक्तिः स्वमर्मगुप्त्यर्थ व्यापारेणान्यवञ्चनम् । तुभ्यं साकृतताम्बूलं दृष्ट्वान्यं शम्भवे ऽर्पयत् ॥ २८७ ॥ सूचितम् । तथा सर्वतः स्वसंनिकृष्टदेशावच्छेदेन प्रकाशमालोकं अभिनीय अभितः समन्ताद्भागेन नीत्वा । प्रसार्येति यावत् । एवं सर्वतः समन्ताद्भागेन स्नेहमपि तैलमप्यभिनीयाभितः समाकृष्य दग्ध्वेत्यपिशब्द मनुकृष्यान्वयः | अतुलेति निरुपमोष्मजननादित्यर्थः : । कज्जलमपि अञ्जनमपि । एतेन प्रकाशात्मकत्वेन तमो. भिविरोधिनस्तव तत्सदृश कृष्णवर्णाञ्जन जनकत्वमनुचितमेवेति द्योत्यते । कथं समुद्विरसि निरुक्तरीत्या तव तमः समभिवमनमनुचितमेवेति भावः । पक्षे भो दीप इव गृहमण्डनपण्डितवर मत्प्राणनाथ, त्वं सदशं दशाभिः आवरणविक्षेपदशाभिः सहितं सदशं । एतादृशं तमः मूलाज्ञानं हृत्वा स्वसंपादितगुरूपदिष्टविचारिततत्वमस्यादिवेदान्तमहावाक्यजन्य सकल द्वैतबाधकप्रत्यग्ब्रह्मैक्य विषयका प्रतिबद्धप्रायापरोक्षप्रबोधेन प्रध्वंस्येत्यर्थः । नचाज्ञानस्य 'आच्छाद्य विक्षिपति संस्फुरदात्मरूपं जीवेश्वरत्वजगदाकृतिभिर्मृषैव । अज्ञानमावरणविभ्रमशक्तियोगादात्मत्वमात्रविषयाश्रयताबलेन' इति संक्षेपशारीरको तेरावरणादिशक्तिद्वयवत्त्वमेव नतु चेतन दे. हस्य बाल्यादिवद्दशावत्त्वमपीति वाच्यम् । अस्य वाक्यस्य सारस्यज्ञैः श्रीमद्भारतीतीर्थैस्तयोरवस्थात्वस्यापि वर्णनात् । तथाचोक्तं तृप्तिदीपे - 'अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधी: । अपरोक्षमतिः शोकमोक्षस्तृप्तिर्निरङ्कुशा । सप्तावस्था इमाः सन्ति चिदाभासस्य तास्विमौ । बन्धमोक्षौ स्थितौ तत्र तिस्रो बन्धकृतः स्मृताः ' इति । नन्वेवमपीमाश्चिदाभासाख्यजीवस्यैवावस्थाः सन्ति नत्वज्ञानस्येतिचेन्न । चि दाभासपृथक्कारे तस्य गगनकुसुमायमानतया तथोक्तत्वात् । नाप्येवं चेद्दशाभिरिति बहुवचनानर्थक्यमिति शङ्कयम् । पलत्राज्ञानाभिप्रायेण तत्सार्थक्यात् । एवं सदशमिति प्रकाशशब्दित प्रबोधस्यापि विशेषणम् । तत्रापि परोक्षध्याद्यवशिष्ट मोक्षकारकावस्थाचतुष्टयस्यापि संभवाद्दशावस्थापदयोः पर्यायत्वाच्च । अभिनीय अभिनयशब्दितं विषयिजनेषु तन्नाटनमात्रं कृत्वेत्यर्थः । एवमेव सर्वतः सर्वजनेषु स्नेहं प्रेमाणमप्यभिनीय नाटयित्वा । अतुलेति खापराधबोधसंभावितेतर क्रोधप्रबाधकनिरुपमरोषाद्धेतोरिति यावत् । कज्जलमपि कज्जलसदृशकलङ्कसंपादकं दुर्वा - क्यमपीत्यर्थः । एतेन निरुक्तमहिम्नस्तवेदमयुक्तमेवेति व्यज्यते । कथं समुद्गिरसि वमनवत्किमिति वेगादुच्चारयसीति संबन्धः । तस्मादेतादृशेन विदुषा पारदारिकः कामः स्खेन्द्रियदमनाद्यन्यस्थानविषयकः क्रोधश्च नैव कार्य इति नीतिरित्या कूतम् । तथाचेह गूढोक्तिलक्षणं स्फुटमेव । उदाहरणचतुष्टयेऽत्रावान्तरवैजात्यं तु स्वयमेवोह्यम् ॥ २८६ ॥ एवं गुप्तिसाधर्म्य संगतां युक्त्यलंकृतिमपि लक्षयति-युक्तिरिति । तामुदाहरति — तुभ्यमिति । सा राधिका हे श्रीकृष्णेत्यार्थिकम् । तुभ्यं त्वदर्थं कृतताम्बूलं विरचितवीटिकाविशेषं रहसि मद्धस्तद्वारा प्रेषयन्ती सतीति शेषः । अन्यं इतरं कंचिदकस्माद्दैववशात्तत्र समागतं जनं दृष्ट्वा अवलोक्य शंभवे
कौस्तुभरत्नम् ]
८
५१५