SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५१२ साहित्यसारम् । [ उत्तरार्धे सामान्यं नेक्ष्यते यत्र विशेषः कोऽपि साम्यतः। आदर्शमन्दिरस्थाया दमयन्त्या न निर्णयः॥ २८१ ॥ साकूर्ति प्रतिवाक्यं चेदुत्तरं परिभण्यते। यत्रासौ मल्लिकाकुञ्जस्तत्र च्छाया घनेक्ष्यते ॥ २८२ ॥ रदने ताम्बूलं केन लक्षयेय वयम्' । अत्र प्रियेण ताम्बूलं कुतो न गृह्णासीत्युक्ते एतावन्तं समयं ताम्बूलानि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । यथावा मदीयायामद्वैतामृतमजार्याम्-'राधेऽङ्गरागमिह न क्वचिदपि धत्से कुतस्त्वमुरसीष्टम् । नित्यं दधामि कौङ्कुममिति चेन्नो लक्ष्यते कस्मात्' इति । इदं हि भगवतः श्रीकृष्णस्य राधिका प्रति कुचकनककमलकोशमर्दनकालिकं वाक्यम् । भो राधे,त्वं इह मया मद्यमानस्तनकाञ्चनकमलकोशावच्छेदेन प्रत्यक्ष इत्यर्थः। एतादृशे उरसि त्वं इष्टमस्मदभिलषितं अङ्गरागं काश्मीरकर्दमाद्यङ्गोद्वर्तनद्रव्यालेपनं क्वचि. दपि कुतो न धत्स इत्याक्षेपे सति, अहं कौङ्कुमं काश्मीरजन्मजं तं नित्यं दधा. मीति वदसि चेत्तर्हि सोऽस्माभिः कस्माद्धेतो! लक्ष्यत इत्यन्वयः । एवंच तस्याः परमगौरत्वेन प्रत्यक्षेऽपि तद्भेदाग्रह इत्याशयः ॥ २८० ॥ एवं भेदाग्रहनिबन्धनमिलितालंकारनिरूपणप्रसक्तं सामान्यालंकारं लक्षयति-सामान्यमिति । यत्र उपमानोपमेययोरिति शेषः । साम्यतः परमसाधयेणेत्यर्थः । कोऽपि विशेषो नैवेक्ष्यते तत्सामान्यमित्यध्याहृत्यान्वयः। अस्तीत्यार्थिकम् । तदुक्तं कुवलया. नन्दे-'सामान्यं यदि सादृश्याद्विशेषो नोपलक्ष्यते । पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्' इति । यथावा रसगङ्गाधरे-'प्रत्यक्षविषयस्यापि वस्तुनो बल. वत्सजातीयग्रहणकृतं तद्भिन्नत्वेनाग्रहणं सामान्यम्' इति । तदुदाहरति-आद. शेति । नलस्यासीदिति शेषः । यथावा साहित्यदर्पणे–'मल्लिकाञ्चितधम्मिल्लाश्वारुचन्दनचर्चिताः । अविभाव्याः सुखं यान्ति चन्द्रिकाव भिसारिकाः' । मी. लिते उत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानं इह तूभयोस्तुल्यगुणतयाभेदाग्रह इति । यथावा कुवलयानन्दे–'रत्नस्तम्भेषु संक्रान्तप्रतिबिम्बशतैर्वृतः। लकेश्वरः सभामध्ये न ज्ञातो वालिसूनुना' इति । विस्तरस्तु तत्रैव ज्ञेयः ॥ २८१ ॥ एवं विशेषः सन्नप्यतिसाम्यान्न लक्ष्यत इति सामान्यलक्षणप्रसक्तं गूढाभिसन्धिघटितप्रतिवचनात्मकमुत्तरालंकारं लक्षयति-साकूतमिति । तमुदाहरति-यति। इदं हि चैत्रातपक्लान्तं वृन्दावने श्रीकृष्णमालक्ष्य संकेतसूचकं राधिकायास्तं प्रति वाक्यम् । यथावा साहित्यदर्पणे-वीक्षितुं न क्षमा श्वश्रूः स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः कुतः' इति । यथावा कुवलयानन्दे–'किंचि. दाकूतसहितं स्यागूढोत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ तत्रेयं सुतरा सरित् । 'ग्रामेऽस्मिन्प्रस्तरप्राये न किंचित्पान्थ विद्यते। पयोधरोन्नतिं दृष्ट्वा वस्तुमिच्छसि चे. द्वस' । इदमुन्नेयप्रश्नस्योदाहरणम् । निबद्धप्रश्नस्योदाहरणं यथा-'कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथ
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy