SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ५११ मीलितं लिङ्गसाम्येन प्रत्यक्षेऽपि भिदग्रहः। नित्यमभ्यजनं सीते योषितां विहितं किमु ॥ २८०॥ स्तीति । अन्यसंनिधेः खगुणसजातीयगुणकेतरवस्तुसंनिधानादित्यर्थः। अन्येति। स्वीयेति । स्वसिद्धगुणसमृद्धिरिति यावत् । अनुगुणः एतन्नामकोऽलंकारः । मतः सयुक्तिकत्वात्संमतोऽस्तीत्यर्थः । तदाहुः कुवलयानन्दकृतः--'प्राक्सिद्धखगुणोत्कर्षोऽनुगुणः परसंनिधेः । नीलोत्पलानि दधते कटाक्षरति नीलताम् । 'कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः । अपिच पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य' इति । तमुदाहरति-नासेति । अत्राधरपदेन निरुक्तमौक्तिकेषु पद्मरागसाहचर्यात्किचित्पाटलिमसंभवात्स्मितकान्तावपि स्वारुणिमसहकृतेस्तत्साजात्येन तदाधिक्याधायकत्वं ध्वनितम् ॥ २७९ ॥ एवमेतत्साधर्म्यप्रसक्त मीलितमपि लक्षयति-मीलितमिति । प्रत्यक्षे चाक्षुषेऽपि वस्तुनि विषये । लिङ्गसाम्येन हेतुतौल्यैन । भिदग्रहः सत्यसंभावितपदार्थयोर्भेदानवबोध इति यावत् । मीलितं एतन्नामकमलंकरणं भवतीत्यन्वयः । तदुदाहरति-नित्यमिति । इदं हि भगवतः श्रीरामस्य रत्यागारे जानकी प्रति तल्लावण्यमलौकिक दृष्ट्वा वाक्यम् । भो सीते, योषितां स्त्रीणां अभ्यञ्जनं अभ्यङ्गस्नानं नित्यं विहितमस्ति किंन्विति संबन्धः । अयमाशयः-यथा नित्येऽखिलमिति मुहूर्तमार्तण्डवचनाद्देशविशेषावच्छेदेन पुरुषैः क्रियमाणे नित्यमभ्यङ्गनाने अखिलं पुष्पवासितं तद्भिन्नादिसंपूर्णतैलं शुभमेवेत्यर्थकात्पुंसामभ्यङ्गस्नानं नित्यं विहितमस्ति तद्वत्स्त्रीणामपि नित्यमभ्यञ्जनं भवति किम्वित्याक्षेपस्तु 'अथ बुधाम्बुपःपितृभाभ्यङ्गात्पतिघ्यङ्गना' इति तद्वाक्याब्रुधवासरशततारकामघानक्षत्रदिवसनिषेधादुपपन्न ए. वेति । एवंचात्र भगवत्याः सीतायाः खरूपे प्रत्यक्षेऽपि भगवतः श्रीरामस्याभ्य. गसाधारणेनात्मनि प्रतिबिम्बग्रहणयोग्यतारूपकान्तिमत्त्वात्मकालौकिकतल्लावण्यलक्षणेन लिङ्गसाम्येन तस्यामभ्यङ्गजन्यनिसर्गसिद्धरोचिषोभैंदाग्रहो ध्वनिमर्यादया सिद्ध इति लक्षणसंगतिः । यथावा काव्यप्रकाशे-'अपाङ्गतरले दृशौ मधुरवर्णवक्रा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशः खतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते' इति । यथावा साहित्यदर्पणे-'लक्ष्मीवक्षोजकस्तूरीलक्ष्म वक्षःस्थले हरेः । प्रस्तं नालक्षि भारत्या भासा नीलोत्पलाभया' इति । यथावा कुवलयानन्दे–'मीलितं यदि सादृश्याद्भेद एव न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे' । 'मल्लिकामाल्यभारिण्यः सर्वाङ्गीणाचन्दनाः । क्षौमवयो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः' इति । यथावा रसगङ्गाधरे—'स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेनागृह्यमाणानां वस्वन्तरलिङ्गानां खकारणाननुमापकत्वं मीलितम् । संग्रहश्च 'भेदाग्रहेण लिङ्गानाम्' इत्यादि लक्षणपरिष्कारस्तत्रैव द्रष्टव्यः। यथावा-'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy