________________
सरसामोदव्याख्यासहितम् ।
ज्ञात्वा पराशयं चेष्टा साकूता सूक्ष्ममुच्यते । राधा मयेक्षिता जाती कुसुमेञ्जनमातनोत् ॥ २८३ ॥ पराशय विदे चेष्टा साकूता पिहितं मतम् । सपत्न्याश्चित्रमलिखद्रूढायाः सा स्वमन्दिरे ॥ २८४ ॥ स्वाकारगुप्तिर्व्याजोक्तिर्हेत्वन्तरनिरुक्तितः सख्यस्मि पीडितोद्याने वानरेण नखक्षतैः ॥ २८५ ॥
।
कौस्तुभरत्नम् ८ ]
५१३
यामि या श्वसिति इति । यथावा रसगङ्गाधरे - 'प्रश्न प्रतिबन्धकज्ञानविषयीभूतोऽर्थ उत्तरम् । तच्चोत्तरं द्विविधम् । उन्नीयप्रश्नं निबद्ध प्रश्नं च । क्रमेणोदाहरणे'त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत्कुशलं में संप्रति यत्पान्थ जीवामि' । 'किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः । कथय तथापि मुदे मम कथयिष्यति याहि पान्थ तव जाया' इति ॥ २८२ ॥ एवं साकूततत्त्वसाधर्म्येणोत्तरालंकारनिरूपणप्रसक्तं सूक्ष्मालंकारं लक्षयति -ज्ञात्वेति । तदुदाहरति — राधेति । इदं हि भगवतः श्रीकृष्णस्य खरहः सखं प्रति स्वगुह्य वेदकं वाक्यम् । रे प्रियसख, अद्य राधा मयेक्षिता सुरताभिलाषेणावलोकिता सती तादृशं मदाशयं ज्ञात्वा तत्संकेतसूचकाख्यरहस्यरूपाकूतेन जा• तीकुसुमे वृन्दावनेऽत्र निकटवर्तिमालतीपुष्प इत्यर्थः । अञ्जनं स्वनेत्रवर्तिकज्जलम् । आतनोलापयामासेति संबन्धः । एवं चास्मिन्मालतीकुञ्जे कज्जलसदृशतमखिन्यां रजन्यामद्यावयोः सुरतसंकेत इत्याकूतमुक्तचेष्टया ज्ञापयांबभूवेति भावः । यथावा काव्यप्रकाशे—‘संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हेसनेत्रार्पिताकूतं लीलापद्मनिमीलितम्' । अत्र जिज्ञासितः संकेतकालः कयाचिदिङ्गितमात्रेण वि. दितो निशा समयशंसिना कमलनिमीलनेन लीलया प्रतिपादित इति । यथावा कु वलयानन्दे – 'सूक्ष्मं पराशयं ज्ञात्वा यत्तु साकूतचेष्टितम् । मयि पश्यति सा केशैः सीमन्तमणिमावृणोत्' इति ॥ २८३ ॥ अतएव प्रसङ्गसंगतं पिहितमपि लक्षयति — परेति । तदुदाहरति - सपत्त्या इति । सा पूर्वोक्ता राधा । श्रीकृष्णो हि कस्यचिदन्यस्यां खतुल्यरूपगुणायामासक्तोऽस्ति नवेति संदिहाना सती तन्निर्णयार्थ तस्याः गूढायाः सपत्न्याश्चित्रं स्वमन्दिरेऽलिखत्तद्वीक्षणेनायं किं प्रसीदत्युत विषीदत्यथवोदास्ते । यद्याद्यः कल्पस्तदा संजातसंयुक्तेर्यदि द्वितीय स्तर्हि भविष्यत्संभुक्तर्यदि तृतीयस्तदाऽनासक्तेश्च निर्णयः सुघट एवेति धिया लिलेखेति योजना । तदुक्तं कुवलयानन्दे - 'पिहितं परवृत्तान्तं ज्ञातुं साकूतचेष्टितम् । प्रिये गृहागते प्रातः कान्तातल्पमकल्पयत्' इति ॥ २८४ ॥ एवमतुलचातुरीप्रसक्तां व्याजोक्त्यलंकृतिं लक्षयति-स्वाकारेति । तामुदाहरति - सखीति । अत्राकारस्य हेत्वन्तरवर्णनेन गोपनाद्वचनस्यान्यथानयनेन तदर्थगोपनरूपायाइछे
-
१ आसीदिति पाठः ।