Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 526
________________ साहित्यसारम् । [ उत्तराधे तहुणः स्वगुणावृत्त्या स्वसंसृष्टगुणग्रहः । उत्तंसेन्दीवरं तेऽद्य कटाक्षैः कुमुदायते ॥२७६ ॥ पूर्वरूपमिदं स्वीयगुणाप्तावन्यसंनिधेः। तदपीन्दीवरं बाले कटाक्षैरेव ते सितैः ॥ २७७॥ अतहुणस्तु संसर्गेऽप्यन्यदीयगुणाग्रहः। शिवग्रीवानुषक्तोऽपि प्रकोष्ठो गौर एव ते ॥ २७८॥ मतोऽस्त्यनुगुणः स्वीयगुणोत्कर्षोऽन्यसंनिधेः। नासाभरणमुक्तालिः स्मिताधररुचातिरुक् ॥ २७९ ॥ पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः' इति । यथावा रसगङ्गाधरे–'अपि बत गुरुगर्व मास्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं खजनकममुनैव प्राणहीनं करोषि' । 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः' इति च । सर्वत्र लक्षणसमन्वयः प्रोकवदेव ॥ २७५ ॥ एवं लेशप्रसङ्गात्तद्गुणं लक्षयति-तहण इति । स्वेति । खगुणस्यावृत्तिः स्वच्छतमेऽपि स्फटिके जपाकुसुमलोहितरूपप्रतिबिम्बाव. च्छेदेन निजशुक्लरूपास्फूर्तिस्तयेत्यर्थः। खसंसृष्टेति। खसंबद्धवस्तुसंबन्धिगुणसंग्रहइति यावत् । तदुक्तं कुवलयानन्दे–'तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः । पद्मरागायते नासामौक्तिकं तेऽधरत्विषा' । रसगङ्गाधरेऽपि—'स्वगुणत्यागपूर्वकं वसं. निहितवस्त्वन्तरसंबन्धिगुणग्रहणं तद्गुणः' इति । तमुदाहरति-उत्तंसेति । अये प्रिये इत्यार्थिकम् । अद्य ते त्वत्संबन्धि । उत्तंसेन्दीवरं कर्णपूरीकृतनीलोत्पलम् । ते वत्संबन्धिभिः कटाक्षरेव संचारविशेषावच्छेदेन सितापाङ्गतरङ्गैरित्यर्थः । कुमुदायते कैरवीभवतीत्यन्वयः । यथावा रसगङ्गाधरे--'नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः । बन्धूकभावमानिन्ये रागेणाधरवर्तिना' इति--- ॥ २७६ ॥ एतस्यैव संज्ञान्तरं पूर्ववद्रूपान्तरादेवाह-पूर्वरूपमिति । तदुदा. हरति-तदपीति । असितैरितिच्छेदः । यथावा कुवलयानन्दे–'पुनः खगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः' इति । यथावा रसगङ्गाधरे—'अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः । हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः' इति ॥ २७७ ॥ एवम. तद्गुणं लक्षयति-अतहुणस्त्विति । तमुदाहरति-शिवेति । अयि गौरीति शेषः । यथावा कुवलयानन्दे-'संगतान्यगुणानङ्गीकारमाहुरतद्गुणम् । चिरं रागिणि मच्चित्ते निहतापि न रज्यसि' इति । यथावा रसगङ्गाधरे-कुचाभ्यामा. लीढं सहजकठिनाभ्यामपि रमे न काठिन्यं धत्ते तव हृदयमत्यन्तमृदुलम् । मृगाङ्गानामन्तर्जननि निवसन्ती खलु चिरं न कस्तूरी दूरीभवति निजसौरभ्यवि. भवात्' इति ॥ २७८ ॥ एवमतद्गुणनिरूपणप्रसक्तमनुगुणं लक्षयति-मतो

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576