Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
सरसामोदव्याख्यासहितम् ।
संतर्पितोऽप्यहिः क्षीरैर्विषमेव वमत्यलम् । दुर्जनानां स्वभावोऽयमुपकारेऽपि याहतिः ॥ २६५ ॥ उत्कर्षाकारणे तद्धेतुत्वं प्रौढोक्तिरिष्यते । मृगाङ्कमृगनेत्रश्रीहारिणी ते प्रियेक्षिणी ॥ २६६ ॥ धर्मिणि प्रकृते तस्य व्यवहारानुदीरणात् । अतथाव्यवहारस्य संबन्धो ललितं स्मृतम् ॥ २६७ ॥ 'प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा । यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः' इति ॥ २६४ ॥ एवं सामान्यपूर्वकविशेषार्थान्तरन्यासमुदाहृत्य विशेषपूर्वकसामान्यार्थान्तरन्यासमुदाहरति--संतर्पितोऽपीति । आहतिरुपकर्तुर्ध्वस्तिः । ननु काव्यलिङ्गस्यानुपदोक्तस्य प्रागुक्तस्योदाहरणा लंकारस्य प्रकृतस्यार्थान्तरन्यासस्य तथा वक्ष्यमाणयोर्हेत्वनुमानालंकारयोश्च व्याप्तिमूलकत्वसाम्येऽपि कोंशो विशिष्य प्रत्येकं परस्परभेदक इति चेच्छृणु । काव्यलिङ्गे तु निरुक्तविशेषणद्वयेनानुमानार्थान्तरन्यासवदुदाहरणहेत्वलंकाराभ्यामपि वैलक्षण्यमभिसंभवत्येव । सामान्याद्यवच्छिन्नत्वस्य तत्र सत्वात् । उदाहरणार्थन्तरन्यासयोर्वैलक्षण्यस्य रसगङ्गाधर एवोक्तत्वाच्च । तथाचोक्तं तत्रैव --' इदमस्ति वैलक्षण्यं सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः । अनुवाद्यांशमात्रे विशेषत्वं विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्योदाहरणालंकारस्य विषयः । द्वितीयात्वर्थान्तरन्यासभेदस्येति' । एवं काव्यप्रकाशे वैधर्म्येणाप्यर्थान्तरन्यासभेदावुक्तौ ॥ २६५ ॥ एवं व्याप्तिमूलकार्थान्तरन्यासनिरूपणे सति तद्वैपरीत्यप्रसक्तां प्रौढोति लक्षयति–उत्कर्षेति । तद्धेतुत्वमुत्कर्षहेतुत्वमित्यर्थः । तामुदाहरति- मृगाङ्केति । अये प्रिये, ते अक्षिणी । मृगाङ्केति । मृगाङ्कस्य चन्द्रस्य अङ्कस्थितो यो मृगः किशोरकुरङ्गः - तस्य या नेत्रश्रीर्नयनशोभा तस्याः हारिणी स्वशोभयापहरणशीले भवत इत्यन्वयः । अत्र नेत्रशोभायां हरिणसामान्यस्य कारणत्वे सुप्रसिद्धेऽपि तत्रातथाभूतस्यापि चन्द्रचमूरोस्तत्कल्पनाल्लक्षणसंगतिः । यथावा कुवलयानन्दे - 'प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वप्रकल्पनम् । कचाः कलिन्दजातीरतमालस्तोममेचकाः' इति । एतेन 'किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्नजं वहन्' इति तदुक्ता मिथ्याध्यवसितिव्याख्याता । अत्रैवान्तर्भावात् बालव्युत्पादनार्थमेव तत्र पृथगुक्तेश्च ॥ २६६ ॥ एवं प्रौढोक्तिप्रसक्तं ललितं लक्षयतिधर्मिणीति । अतथेति । अप्रकृतव्यवहारस्येत्यर्थः । तदुक्तं कुवलयानन्दे— 'प्रस्तुते वर्ण्यवाक्यार्थ प्रतिबिम्बस्य वर्णनम् । ललितं निर्गते नीरे सेतुमेषा चिकीर्षति' इति। रसगङ्गाधरेपि - ' प्रकृतधर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृतव्यवहारसंबन्धो ललितालंकारः । ' आददानः परद्रव्यं विषं भक्षयसि ध्रुवम् ' इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति
४३
कौस्तुभरत्नम् ८ ]
.
५०५

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576