Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 519
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ,कैमुत्येनार्थसिद्धिश्चेत्कान्यार्थापत्तिरुच्यते । अविद्याप्यात्मबोधेन बाधितान्यकथैव का ॥ २६१ ॥ सामान्याद्यनवच्छिन्नोऽनुमित्यकरणत्ववान् । अर्थः प्रकृतसिद्धीष्टः काव्यलिङ्गं सतां मतम् ॥ २६२॥ . सर्वैनोविलयं यावदुर्गुणार्णवमप्यलम् ।. मां क्षणात्कृपयोद्धर्तुं धुर्यः को वाऽपरो गुरो ॥ २६३ ॥ . 'सुतरां क्षिणोति खळ तां मदनः' इति कुवलयानन्दकारेणोदाहृते पद्ये हेत्वंश उत्प्रेक्षांशश्चेत्युभयमपि शाब्दमिति कथंकारमस्यालंकारस्योदाहरणतां नीतमिदमायुष्मतेति न विद्म इति प्रकृतालंकारखण्डनं कुवलयानन्ददूषणं चोक्तं यत्तत्त्वदुक्तपूर्वग्रन्थवदेव सुसमाधेयम् । प्राचामनुरोधस्योभयत्रापि तौल्यात् । एवं विचारासहत्वादेव कुवलयानन्दकारैश्चित्रमीमांसायामुत्प्रेक्षान्तमेव तद्विवेचनस्य कृतत्वाचेति न कोपि दोष इति शिवम् ॥ २६० ॥ एवं प्रतिपक्षप्रियतिरस्कारात्मकप्रत्यनीकप्रतिपादनप्रसक्तां 'कैमुत्येनार्थसंसिद्धिः काव्यापत्तिरिष्यते । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम्' इति कुवलयानन्दकृदेकमतां काव्यार्थापत्यलंकृति लक्षयति-कैमुत्येनेति । कैमुतिकन्यायेनेत्यर्थः । तामुदाहरतिअविद्यापीति । आत्मबोधेन यथोक्ताधिकारिणः सद्गुरुणा समुपदिष्टश्रवणादिसुविचारितखशाखीयवेदान्तमहावाक्यजन्याप्रतिबद्धद्वैतबाधपूर्वकाद्वैतब्रह्मात्मैक्यविषयकनिर्विकल्पप्रमालक्षणसाक्षात्कारेणेत्यर्थः । अविद्यापि निखिलद्वैतेन्द्रजालकलनोक्तचिन्मात्रैकाश्रयविषयकमूलाज्ञानव्यक्तिरपीति यावत् । अपिना निरुक्तरूपत्वेन तस्याः परमदुर्विरसत्वं सूचितम् । यदाबाधितप्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वलक्षणेन मिथ्यात्वेन निर्णीतेत्यर्थः। तदा अन्यकथैव का तत्प्रयुक्तद्वैत वार्तव का न काप्यस्तीति संबन्धः । यथावा कुवलयानन्दे-'अधरोऽयमधी. राक्ष्या बन्धुजीवप्रभाहरः । अन्यजीवप्रभां हन्त हरतीति किमद्भुतम्' । 'खकीयं हृदयं भित्वा निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य भेदने का त्रपा तयोः' इति च ॥ २६१ ॥ एवं काव्यापत्तिप्रतिपादनप्रसक्तं काव्यलिङ्गं लक्षयतिसामान्यादीति । आदिना विशेषः । एतेन 'उक्तिरर्थान्तरन्यासः स्यात्सामान्य विशेषयोः' इति प्रसिद्धार्थान्तरन्यासव्युदासः । अनुमितिकरणत्वघटितानुमाना. लंकारं व्यावर्तितुं पुनर्विशिनष्टि-अनुमितीति । एतादृशः।प्रकृतेति । प्रकृतः प्रतिपाद्यो यः पदार्थः तस्य या सिद्धिः तस्या इष्टः । प्रकृतवस्तुप्रतिपत्तये विवक्षित इत्यर्थः । एतादृशश्च योऽर्थः स काव्यलिङ्गनामालंकरणं सतामालंकारिकवराणां मतं संमतं भवतीति योजना । तदुक्तं रसगङ्गाधरे-'अनुमितिकरणत्वेन सामान्यवि. शेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गमिति । अत्र विस्तरस्तत्रैवानुसंधेयः । इह प्रकृतेत्यादितृतीयविशेषणकृत्यं तूपमादिवारणार्थमेवेत्सलं पल्लवितेन ॥ २६२ ॥ अथैवं लक्षितं काव्यलिङ्गमुदाहरति

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576