SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ सरसामोदव्याख्यासहितम् । संतर्पितोऽप्यहिः क्षीरैर्विषमेव वमत्यलम् । दुर्जनानां स्वभावोऽयमुपकारेऽपि याहतिः ॥ २६५ ॥ उत्कर्षाकारणे तद्धेतुत्वं प्रौढोक्तिरिष्यते । मृगाङ्कमृगनेत्रश्रीहारिणी ते प्रियेक्षिणी ॥ २६६ ॥ धर्मिणि प्रकृते तस्य व्यवहारानुदीरणात् । अतथाव्यवहारस्य संबन्धो ललितं स्मृतम् ॥ २६७ ॥ 'प्रभुरपि याचितुकामो भजेत वामोरु लाघवं सहसा । यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः' इति ॥ २६४ ॥ एवं सामान्यपूर्वकविशेषार्थान्तरन्यासमुदाहृत्य विशेषपूर्वकसामान्यार्थान्तरन्यासमुदाहरति--संतर्पितोऽपीति । आहतिरुपकर्तुर्ध्वस्तिः । ननु काव्यलिङ्गस्यानुपदोक्तस्य प्रागुक्तस्योदाहरणा लंकारस्य प्रकृतस्यार्थान्तरन्यासस्य तथा वक्ष्यमाणयोर्हेत्वनुमानालंकारयोश्च व्याप्तिमूलकत्वसाम्येऽपि कोंशो विशिष्य प्रत्येकं परस्परभेदक इति चेच्छृणु । काव्यलिङ्गे तु निरुक्तविशेषणद्वयेनानुमानार्थान्तरन्यासवदुदाहरणहेत्वलंकाराभ्यामपि वैलक्षण्यमभिसंभवत्येव । सामान्याद्यवच्छिन्नत्वस्य तत्र सत्वात् । उदाहरणार्थन्तरन्यासयोर्वैलक्षण्यस्य रसगङ्गाधर एवोक्तत्वाच्च । तथाचोक्तं तत्रैव --' इदमस्ति वैलक्षण्यं सामान्यार्थसमर्थकस्य विशेषवाक्यार्थस्य द्वयी गतिः । अनुवाद्यांशमात्रे विशेषत्वं विधेयांशस्तु सामान्यगत एवेत्येका । अनुवाद्यविधेयोभयांशेऽपि विशेषत्वमित्यपरा । तत्राद्योदाहरणालंकारस्य विषयः । द्वितीयात्वर्थान्तरन्यासभेदस्येति' । एवं काव्यप्रकाशे वैधर्म्येणाप्यर्थान्तरन्यासभेदावुक्तौ ॥ २६५ ॥ एवं व्याप्तिमूलकार्थान्तरन्यासनिरूपणे सति तद्वैपरीत्यप्रसक्तां प्रौढोति लक्षयति–उत्कर्षेति । तद्धेतुत्वमुत्कर्षहेतुत्वमित्यर्थः । तामुदाहरति- मृगाङ्केति । अये प्रिये, ते अक्षिणी । मृगाङ्केति । मृगाङ्कस्य चन्द्रस्य अङ्कस्थितो यो मृगः किशोरकुरङ्गः - तस्य या नेत्रश्रीर्नयनशोभा तस्याः हारिणी स्वशोभयापहरणशीले भवत इत्यन्वयः । अत्र नेत्रशोभायां हरिणसामान्यस्य कारणत्वे सुप्रसिद्धेऽपि तत्रातथाभूतस्यापि चन्द्रचमूरोस्तत्कल्पनाल्लक्षणसंगतिः । यथावा कुवलयानन्दे - 'प्रौढोक्तिरुत्कर्षाहेतौ तद्धेतुत्वप्रकल्पनम् । कचाः कलिन्दजातीरतमालस्तोममेचकाः' इति । एतेन 'किंचिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत्खस्नजं वहन्' इति तदुक्ता मिथ्याध्यवसितिव्याख्याता । अत्रैवान्तर्भावात् बालव्युत्पादनार्थमेव तत्र पृथगुक्तेश्च ॥ २६६ ॥ एवं प्रौढोक्तिप्रसक्तं ललितं लक्षयतिधर्मिणीति । अतथेति । अप्रकृतव्यवहारस्येत्यर्थः । तदुक्तं कुवलयानन्दे— 'प्रस्तुते वर्ण्यवाक्यार्थ प्रतिबिम्बस्य वर्णनम् । ललितं निर्गते नीरे सेतुमेषा चिकीर्षति' इति। रसगङ्गाधरेपि - ' प्रकृतधर्मिणि प्रकृतव्यवहारानुल्लेखेन निरूप्यमाणोऽप्रकृतव्यवहारसंबन्धो ललितालंकारः । ' आददानः परद्रव्यं विषं भक्षयसि ध्रुवम् ' इत्यादिनिदर्शनावारणाय तृतीयान्तम् । अप्रस्तुतप्रशंसावारणाय प्रकृतधर्मिणीति ४३ कौस्तुभरत्नम् ८ ] . ५०५
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy