SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ५०४ साहित्यसारम् । । उत्तरार्धे वाक्सास्त्यर्थान्तरन्यासो या सामान्यविशेषयोः । साधवश्छिद्यपि प्रीत्यै दग्धोऽप्यगुरुरिष्टकृत् ॥ २६४ ॥ सर्वेति । दारियादितर्कितदुष्प्रारब्धलक्षणसर्वपापकारिकरणत्वेऽपि सांप्रतिकसाद्गुण्यसत्वे स्यादेव निःश्रेयसाधिकृतिरित्यशङ्काय पुनर्विशिनष्टि-यावदित्या. दिना । अलं पर्याप्तं यथा स्यात्तथा यावद्दुर्गुणार्णवमपि सकलासुरादिसंपत्समृद्धिसंपन्नमपीत्यर्थः । एतादृशं मां क्षणानिमेषमात्रेणैव । कृपया अनन्यशरणत्वज्ञान. जन्योद्धरणविलम्बासहिष्णुतयेति यावत् । उद्धर्तु संसारसमुद्रान्निष्काशयितुमित्येतत्। अयि गुरो, कोवा अपरस्त्वदन्यो धुर्यः समर्थोऽस्ति न कश्चिदपीति संबन्धः। तस्मात्त्वमेव मदुद्धरणकरणप्रवीणो भवसीति भावः । अत्र निरुक्तलक्षणस्यार्थस्य साधकत्वेन विवक्षितः पूर्वार्धोक्तरीत्यानुमानादिसामग्रीविधुरः सर्वेत्यादिसकल. श्लोकार्थः स्पष्ट एवेति लक्षणसंगतिः। यथावा काव्यप्रकाशे-'वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिमानितीश क्षन्तव्यं तदिदमपराधद्वयमपि' इति । यथावा. कुवलयानन्दे–'समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थकम् । जितोऽसि मन्दकन्दर्प मचित्तेऽस्तित्रिलोचनः' इति । 'असोढा तत्कालोल्लसदसहभावः स तपसां कथानां विस्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दद्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः' । 'जीयादम्बुधितनयाऽधररसमाखादयन्मुरारिरयम् । अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च' इति च । यथावा रसगङ्गाधरे–'पद्मासनप्रभृतिनिर्जरचित्तवृत्तिदुष्प्रापदिव्यमहिमन् भवतो गुणौघान् । तुष्टूषतो मम नितान्तविशृङ्खलस्य मन्तुं शिशोः शिव न, मन्तुमिहासि योग्यः' इति । यत्त्वेतैः पण्डितराजैः कुवलयानन्दकारलक्षणमनूद्य तदपि सामान्यविशेषभावानालिङ्गितत्वविशेषणरहितं चेदर्थान्तरन्यासे स्यादेवातिप्रसक्तमित्युक्तं तत्सत्यमेव । परंतु तद्विशेषणं तेषां संमतमेवेति तदाशयज्ञेन चेत्पदं प्रयुञ्जता भवतैव ज्ञापितमिति सर्व तदनवद्यमेवेति दिक् ॥ २६३ ॥ एवं व्याप्तिमूलककाव्यलिङ्गालंकारप्रतिपादनप्रसक्तं तद्धटितसामान्याद्यात्मकमर्थान्तरन्यासं लक्षयति-वागित्यर्धेनैव । या सामान्यविशेषयोर्वागुक्तिः सा अर्थान्तरन्यासोऽस्तीति संबन्धः । तदुक्तं कुवलयानन्दे-'उकिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः । हनूमानब्धिमतरहुष्करं किं महात्मनाम् । 'गुणवद्वस्तुसंसर्गाद्याति खल्पोऽपि गौरवम् । पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते' इति । तमुदाहरति-साधवइत्यादिसार्धेन। अत्राद्यपादे सामान्योक्तिः अन्त्यपादे विशेषोक्तिरिति लक्षणसंगतिः । यथावा कुवलयानन्दे-'यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः। तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम्' इति । यथावा रसगङ्गाधरे—'कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु । हित्वान्तिकं सरोजिन्याः पश्य याति न षट्पदः' । यथा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy