________________
५०६ साहित्यसारम् ।
[उत्तरार्धे किंवा ब्रवीम्यहं चित्रं सखि त्वं पश्य कौतुकम् । गोष्ठद्वारमियं पश्चापिधत्तेऽद्य वृषे गते ॥२६८॥ विना तत्करणे यत्नमभीष्टाप्तिःप्रहर्षणम् ।
राधां प्रतीक्षते कृष्णो यावत्तावत्तु साभ्यगात् ॥ २६९ ॥ ॥ २६७ ॥ अथैतदुदाहरति-किंवेति । इदं हि राधया मानातिशयेनावहे. लितत्वात् श्रीकृष्णे तन्मन्दिरादौदासीन्येन गते सति पश्चात्तापेन तस्यां दूत्यादिप्रेषणेन पुनस्तदानयने यतमानायां सत्यां तद्रहःसखी प्रति तद्रहःसख्यन्तरवा. क्यम् । अयि सखि, अहं त्वां प्रति किंवा चित्रं ब्रवीमि । तस्य लोकोत्तरतया साकल्येन वक्तुमशक्यत्वान्नैव ब्रवीमि किंतु त्वमेवेदं कौतुकं पश्येति संबन्धः । ननु किं तदिति तत्सूचनमात्रं त्वपेक्षितमेवेत्यत आह—गोष्ठद्वारमित्याधुत्तरार्धेन । इयमित्यङ्गुल्या निर्दिश्यमाना निकटवर्तिनी प्रियसखी राधिकेत्यर्थः । वृषे वृषभे गते बहिः खैरगृहाथै रात्रौ प्रयाते सतीति यावत् । पश्चादद्य गोष्ठद्वारं गोष्ठस्य ‘गोष्ठं गोस्थानकम्' इत्यमराद्गवां निरोधनादिनिलयद्वारं पिधत्ते कपाटादिनाच्छादयतीति योजना । अत्र प्रकृतधर्मीभूतायां राधिकायां प्रकृतधर्मस्य मानातिशयेन श्रीकृष्णावहेलनलक्षणस्यानुल्लेखेन अप्रकृतव्यवहारोऽयं वृषे गते सत्यनन्तरं गोष्ठद्वारपिधानव्यवहारस्तत्संसर्गस्य निरूपणसत्वाल्लक्षणसंगतिः । यथावा कुवलयानन्दे नैषधीयचरितपद्ये-'अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य' इत्यादौ । अत्र कतमो देशस्त्वया परित्यक्त इति प्रस्तुतार्थमनुपन्यस्य वसन्तमुतस्य वनस्य दशामनायीति तत्प्रतिबिम्बभूतार्थमात्रोपन्यासाललितालंकारः इति । अत्र रसगङ्गाधरे 'इह च प्रस्तुते धर्मिणि देशविशेषे राजकर्तृकत्यागकर्मत्वरूपस्य वर्ण्यस्यार्थस्यावर्णनेऽप्यप्रस्तुतस्यावसन्तकर्तृकत्यागकर्मत्वस्याप्यवर्णनात्कथं संगच्छताम्' इति चरमं दूषणमुक्तं तत्तुच्छम् । तत्प्रतिबिम्बीभूतार्थमात्रोपन्यासादिति मात्रचैव दत्तोत्तरत्वात् । वसन्तेन मुक्तमिति विग्रहस्य तवापीष्टत्वेनार्थमात्रस्या-- नपह्नवाच । एवंच प्राक्तनदूषणगणोऽपीर्ष्यादिमूलकत्वादेवेति निपुणं विभाव्य सूरिभिः पराकरणीय इति दिक् ॥ २६८ ॥ एवं ललितप्रसक्तम् 'उत्कण्ठितार्थ. संसिद्धिविनायत्नं प्रहर्षणम्। तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका' इति कुवल. यानन्दोक्तं प्रथमप्रहर्षणालंकारं लक्षयति-विनेति । अभीष्टेति । 'सर्वेन्द्रियसुखाखादो यत्रास्तीत्यभिमन्यते। तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः' इति तदुक्तोत्कण्ठाविषयीभूतार्थप्राप्तिरित्यर्थः । तदुदाहरति-राधामिति । यथावा गीतगोविन्दे-'मेधैर्मदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः' इति । इदं हि मामकं प्रहर्षणलक्षणं त्रिविधप्रहर्षणसाधारणमेव । परं त्वत्र तत्करणे अभीष्टात्यसाधारणकारणविषये यत्नं विना प्रयत्नमन्तरेत्यर्थः । साधारणः अकस्मादिति तु शेषपूर