________________
५०७
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
इप्सितादधिकाप्तिस्तद्दीपार्थ्यापात्मभं मणिम् ।
उपाययत्नाफलमप्यञ्जनार्थ्यलभन्निधिम् ॥ २७० ॥ णम् । प्रथमभेदपक्ष एवात्रेति विशेषः । एवमेवोक्तं रसगङ्गाधरे 'साक्षादुद्देश्यकयत्नमन्तरेणाप्यभीष्टार्थस्य लाभः प्रहर्षणम्' । इदंच सामान्यलक्षणं त्रिविधप्रहर्षणसाधारणम् । तत्राकस्मादभीप्सितार्थस्य लाभ इत्येका विधा । वाञ्छितार्थसिद्ध्यर्थ यत्ने क्रियमाणे ततोऽप्यधिकतरार्थलाभ इत्यपरा । उपायसिध्धर्थाद्यत्नात्साक्षात्फलस्य लाभ इति तृतीया । अस्यामेवाव्याप्तिनिरासार्थ लक्षणे साक्षादित्युक्तम् । क्रमेणोदाहरणानि–'तिरस्कृतो रोषवशात्परिष्वजन् प्रियो मृगाक्ष्या शपितः पराङ्मुखः । किं मूर्छितोऽसाविति कांदिशीकया कयाचिदाचुम्ब्य चिराय सखजे । अत्र यत्नसामान्यशून्यस्यापीष्टलाभः । 'केलीमन्दिरमागतस्य शनकैरालीरपास्येशितैः सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यन. भिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममाऽधीयत' । अत्र भामिन्या रोषनिवारणाय यत्ने क्रियमाणे रोषनिवारणादप्य. धिकतरसुखप्रदः कामुकस्य भामिनीकर्तृकः स्वकरकर्मकस्तत्कुचाधिकरणक आसङ्गः। नचात्र तृतीयभेदः शङ्कयः । व्यजनवीजनसमये कामुकस्य माननिवारणस्यैव मुख्योद्देश्यत्वेन तदुपेयकुचस्पर्शादिफलान्तरस्यानुपस्थितेः । यथावा-'लोभावराटिकानां विक्रेतुं तक्रमनिशमटन्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनी. लमणिः' । अत्र प्रहर्षणद्वितीयभेदः स्फुट एवेत्यादितद्दर्शनोपायविमर्शनार्थ 'मया तदालीसदनं गतेन तत्रैव साऽलक्ष्यत पक्ष्मलाक्षी । दाक्षायणीमर्चयितुं प्रयाता' । अत्र तद्दर्शनोपायसिध्यर्थं प्रयुक्तात्तत्सखीसदनगमनयत्नात् साक्षादेव तद्दर्शनलाभ इति ॥ २६९ ॥ अथ 'वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् । दीपमुद्योजये- ... द्यावत्तावदभ्युदितो रविः' इत्यपि कुवलयानन्दोक्तं द्वितीयप्रहर्षणप्रभेदं लक्षयति-ईप्सितादिति पादेन । तत्प्रहर्षणं भवतीत्यर्थः । तदुदाहरति-दीपेति पादेनैव । आत्मभं खप्रकाशम् । यथावा कुवलयानन्दएव–'चातकत्रिचतुरा. न्पयःकणान्याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्तहन्त महतामुदारता' इति । अत्र रसगङ्गाधरे दूषणमुक्तं यत् 'लक्षणे संसिद्धिशब्दार्थो लाभेन कृतः संतोषातिशयः । एवं च प्रकृते चातकस्य त्रिचतुरकणमात्रार्थितया जलदकर्तृकजलकरणकविश्वपूरणेन हर्षाधिक्याभावात्प्रहर्षणं कथंकारं पदमाधत्ताम्' इति । तदसत् । श्लोके मात्रपदाभावात्कालान्तरे तृडाविर्भावतस्तदर्थित्वसंभवात्प्रा. वृट्काले सर्वदा वृष्टया निरुक्तजलदकर्तृकजलकरणकविश्वपूरणतः कालान्तरीयतृडुप. शमाश्वासेन प्रहर्षणसंभवाचेति दिक् । एवं 'यत्नादुपायसिद्ध्यर्थात्साक्षालाभः फलस्य चानिध्यञ्जनौषधीमूलं खनतासादितो निधिः' इति च कुवलयानन्दोक्तं तृतीयं प्रहर्षणप्रकारं प्राग्वदेवाह-उपायेति। उपायविषयकप्रयत्नादित्यर्थः। फलमपि प्रहर्षणं भवतीत्यार्थिकम्।अजनेत्यायुदाहरणम्।उक्तरीत्येवेदं स्पष्टम्।यथावा तत्रैव-'उचित्य