Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५००
साहित्यसारम् ।
[ उत्तरार्धे
विकल्पः पाक्षिकी प्राप्तिः परस्परविरुद्धयोः । यावद्विषयसंभोगः शंभो त्यागोऽथवास्तु मे ॥ २५७ ॥ अक्रामिकः पदार्थानामन्वयः स्यात्समुच्चयः । राधाङ्कुरिततारुण्या कृष्णोऽप्यधरतृष्णितः ॥ २५८ ॥
कस्तदपरः सदसद्विवेकम्' । 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगुले तरलत्वं नयनयोर्वसति' । 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे | चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम्' इति । रसगङ्गाधरेऽपि — ‘सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां चिन्तायामसि सस्पृहं यदि चिरं चक्रायुधश्चिन्त्यताम् । आलापं यदि काङ्क्षसे मधुरिपोगीथास्तदाऽलप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम्' । 'किं तीथे हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैता न्धकारोत्करः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वेद खेददानकुशलो दुर्वासनासंचय:' । 'तीर्थ गङ्गा तदितरदपां निर्मलं संघमात्रं देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्यत्तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्यः' इत्यादि ॥ २५६ ॥ एकमेकनिषेधपूर्वकमपरविधानावधारणरूपपरिसंख्यानिरूपणप्रसक्तं विकल्पालंकारं लक्षयति - विकल्प इति । तदुक्तं कुवलयानन्दे – 'विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता । सद्यः शिरांसि चापान्वा नमयन्तु महीभुजः' इति गङ्गाधरेऽपि 'विरुद्धयोः पाक्षिकी प्राप्तिर्विकल्पः' इति रूपः सा च सुन्दर भवत्यनुरक्ता । यावद्विषयतोपयत्यनुशयादिव कामः' इति । यथावा साहित्यदर्पणे"मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः' इति । सिंह इत्यर्थः । यथावा कुवलयानन्दे – 'मम रूपकीर्ति महरद्ध कि यस्तदनुप्रविष्टहृदयेयम्' इति । 'त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः' । एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थिते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा - 'मधुव्रतौघः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन । बिम्बं समाकृष्य बलात्सुधांशोः कलङ्कमङ्के ध्रुवमातनोति' इति । अङ्के 'उत्सङ्गचिह्नयोंरङ्कः' इत्यमरादङ्कशब्दवाच्योत्सङ्गोपलक्षितशरीर इत्यर्थः । यथावा रसगङ्गाधरे'रेरे मनो' मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोक:' । 'जितमौक्तिकसंपदां रदानां सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते' । पूर्वत्रोपजीव्यस्येह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्वशाब्दत्वाभ्यां च वैलक्षण्यमेवमन्यदप्यूह्यम् । अत्र विचार्यते । 'हेतूत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति' इत्यादिना 'सम रूपकान्तिम्' इत्यादिन

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576