Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कौस्तुभरनम् ८]
सरसामोदव्याख्यासहितम् ।
किंचित्स्वास्थ्यसामग्री सूच्यते । अतएव राधिका आलिलिङ्गेति योजना। एवं सापि राधिकापि तादृशी । स्मरशरपराभूता सतीत्यर्थः । अतएव फुल्लेति । अतएव तं श्रीकृष्णं आलिलिङ्गेत्यावृत्त्यान्वयः । एवं चात्र क्रियाद्वारकपरस्परोपकारकत्वमिति तत्त्वम् । अत्र रसगङ्गाधरकृता-'परपुरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्य सीता । अविशत्परकामिनीभुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः' । अत्र क्रियारूपविशेषाधानमिति प्रथमपादे च्छन्दोभङ्गलक्षणं खदोषं बालैरप्युपहसनीयम. पश्यतामियदने श्रीमदप्पय्यदीक्षितोपरि दूषणं प्रणीतं तनैव परीक्षणनिपुणरमणीयम् । तथाहि यत्तु 'यथो/क्षः पिबत्यम्बु पथिको विरलाङ्गुलिः। तथा प्रपापालिकापि धारां वितनुते तनुम् । अत्र प्रपापालिकायाः पथिके मुखासक्तया पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्विरपानीयदानानुवृत्तिसंपादनेनोपकारः कृत इति कुवलयानन्दकार आह । तत्र तावदियं पदरचनैवायुष्मतो ग्रन्थकर्तुर्युत्पत्तिशैथिल्यमुद्गिरति । तथाहि स्व. मुखावलोकनमभिलषन्त्या इत्यत्र खशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपा. पालिकाबोधकत्वमेव न्याय्यं न पान्थबोधकत्वम् । एवं खमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव नत्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थिते अर्थासंगतिः स्पष्टैवेत्यादि । तत्र यत्खशब्दस्यार्थवर्णनं खारसिकमायुष्मता कृतं तदेव कुवलयानन्दकृतामपि संमतम् । तथाच प्रपापालिकायाश्चेतसि खशब्दवाच्यम. न्मुखावलोकनमनेन पान्थेन चिरकालं कर्तव्यं, ततोयं मयि दृढतमं समासक्तः सद्य एव मह्यं यथेष्टवनकुञ्जादौ यथेच्छं संभोगं संप्रदास्यतीति तया जलधारात. नूकारः क्रियते । एवं पान्थमनस्यप्यनया प्रपापालिकया खशब्दितस्य मम मुखावलोकनं दीर्घकालमेव कर्तव्यं, तत इयं मयि दृढं समनुरज्य मह्यं यथावत्कामसुखं दास्यतीति तेन जलगलनार्थमङ्गुलीनां विरलत्वं संपाद्यते । एवंच प्रपापालिकाप्रवृत्तेः प्राधान्येनात्मोपकारकत्वेऽपि पान्थोपकारकत्वमपि तथैव नान्तरीयकतयैव सिद्ध्यति । तद्वत्पान्थव्यापारस्यापि संभोगसुखस्योभयव्यापारसाध्यत्वेनो. भयतर्पकत्वात् । एवं गङ्गाजलवदतुलनिर्मले तद्वाक्यार्थसांगत्ये तत्तात्पर्यानवबो. धमूलाऽसूयादिमूला वा तद्वाक्यार्थस्यासंगतिप्रतिपत्तिस्तव । एतेनाग्रे यदुक्तं किंचेत्यादिना । इहहि धारातनूकरणाङ्गुलिविरलीकरणयोः कर्तृभ्यां खखकर्तृकचि रकालदर्शनार्थं प्रयुक्तयोस्तत्रैवोपयोगश्चमत्कारी नान्यकर्तृकचिरकालदर्शन इत्यनु. दाहरणमेवैतदस्यालंकारस्येत्यादिनाऽनुदाहरणवं निरुक्तकुवलयानन्दोदाहृतपद्यस्य तदपि प्रत्युक्तम् । परस्परोपकारत्वस्यापि स्फुटीकरणम् । तत्रोभयोापाराभ्यां खखोपकारसद्भावेऽपि परस्परोपकारोऽपि न निवार्यत इति कुवलयानन्देप्युपसंहृत. त्वाच्च । तस्मादेतद्दूषणकारणं कोविदा एव कलयन्त्विति दिक् ॥ २४१ ॥ एवं

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576