SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरनम् ८] सरसामोदव्याख्यासहितम् । किंचित्स्वास्थ्यसामग्री सूच्यते । अतएव राधिका आलिलिङ्गेति योजना। एवं सापि राधिकापि तादृशी । स्मरशरपराभूता सतीत्यर्थः । अतएव फुल्लेति । अतएव तं श्रीकृष्णं आलिलिङ्गेत्यावृत्त्यान्वयः । एवं चात्र क्रियाद्वारकपरस्परोपकारकत्वमिति तत्त्वम् । अत्र रसगङ्गाधरकृता-'परपुरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्य सीता । अविशत्परकामिनीभुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः' । अत्र क्रियारूपविशेषाधानमिति प्रथमपादे च्छन्दोभङ्गलक्षणं खदोषं बालैरप्युपहसनीयम. पश्यतामियदने श्रीमदप्पय्यदीक्षितोपरि दूषणं प्रणीतं तनैव परीक्षणनिपुणरमणीयम् । तथाहि यत्तु 'यथो/क्षः पिबत्यम्बु पथिको विरलाङ्गुलिः। तथा प्रपापालिकापि धारां वितनुते तनुम् । अत्र प्रपापालिकायाः पथिके मुखासक्तया पानीयदानव्याजेन बहुकालं स्वमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्विरपानीयदानानुवृत्तिसंपादनेनोपकारः कृत इति कुवलयानन्दकार आह । तत्र तावदियं पदरचनैवायुष्मतो ग्रन्थकर्तुर्युत्पत्तिशैथिल्यमुद्गिरति । तथाहि स्व. मुखावलोकनमभिलषन्त्या इत्यत्र खशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपा. पालिकाबोधकत्वमेव न्याय्यं न पान्थबोधकत्वम् । एवं खमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव नत्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थिते अर्थासंगतिः स्पष्टैवेत्यादि । तत्र यत्खशब्दस्यार्थवर्णनं खारसिकमायुष्मता कृतं तदेव कुवलयानन्दकृतामपि संमतम् । तथाच प्रपापालिकायाश्चेतसि खशब्दवाच्यम. न्मुखावलोकनमनेन पान्थेन चिरकालं कर्तव्यं, ततोयं मयि दृढतमं समासक्तः सद्य एव मह्यं यथेष्टवनकुञ्जादौ यथेच्छं संभोगं संप्रदास्यतीति तया जलधारात. नूकारः क्रियते । एवं पान्थमनस्यप्यनया प्रपापालिकया खशब्दितस्य मम मुखावलोकनं दीर्घकालमेव कर्तव्यं, तत इयं मयि दृढं समनुरज्य मह्यं यथावत्कामसुखं दास्यतीति तेन जलगलनार्थमङ्गुलीनां विरलत्वं संपाद्यते । एवंच प्रपापालिकाप्रवृत्तेः प्राधान्येनात्मोपकारकत्वेऽपि पान्थोपकारकत्वमपि तथैव नान्तरीयकतयैव सिद्ध्यति । तद्वत्पान्थव्यापारस्यापि संभोगसुखस्योभयव्यापारसाध्यत्वेनो. भयतर्पकत्वात् । एवं गङ्गाजलवदतुलनिर्मले तद्वाक्यार्थसांगत्ये तत्तात्पर्यानवबो. धमूलाऽसूयादिमूला वा तद्वाक्यार्थस्यासंगतिप्रतिपत्तिस्तव । एतेनाग्रे यदुक्तं किंचेत्यादिना । इहहि धारातनूकरणाङ्गुलिविरलीकरणयोः कर्तृभ्यां खखकर्तृकचि रकालदर्शनार्थं प्रयुक्तयोस्तत्रैवोपयोगश्चमत्कारी नान्यकर्तृकचिरकालदर्शन इत्यनु. दाहरणमेवैतदस्यालंकारस्येत्यादिनाऽनुदाहरणवं निरुक्तकुवलयानन्दोदाहृतपद्यस्य तदपि प्रत्युक्तम् । परस्परोपकारत्वस्यापि स्फुटीकरणम् । तत्रोभयोापाराभ्यां खखोपकारसद्भावेऽपि परस्परोपकारोऽपि न निवार्यत इति कुवलयानन्देप्युपसंहृत. त्वाच्च । तस्मादेतद्दूषणकारणं कोविदा एव कलयन्त्विति दिक् ॥ २४१ ॥ एवं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy