________________
४९४
साहित्यसारम् ।
[ उत्तरार्धे
विशेषस्तु त्रिधाsधारं विनाधेयस्य वर्णनम् । एकोऽपरस्तु वस्त्वेकमप्यनेकत्र कथ्यते ॥ २४२ ॥ किंचिदुद्योगतो लभ्यवस्तुसिद्धिस्तथेतरः । गुरौं कैवल्यमानेऽपि शास्त्रस्थास्तद्गिरः स्वदाः ॥ २४३ ॥ कृष्णे मधुपुरीं यातेऽप्यस्ति मेऽन्तर्बहिश्च सः । रसं वराटकं द्रष्टुं यतताऽप्तः स चिन्मणिः ॥ २४४ ॥ कर्तेको येन यत्कार्यमकरोद्वा करिष्यति ।
परस्तेनान्यथा तच्चेत्स व्याघातो द्विधा मतः ॥ २४५ ॥ परस्परोपकारकत्वलक्षण विशेषरूपान्योन्यनिरूपणं प्रसक्तं त्रिविधं विशेषं लक्षयति - विशेषस्त्वित्यादिसार्धेन । एवं 'विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः' इति कुवलयानन्दोक्तं प्रथमविशेषं लक्षयित्वा 'विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे' इत्यपि तदुक्तम् । द्वितीयं तं लक्षयति । अपर इत्यादिना । पूर्ववैलक्षण्यार्थस्तुशब्दः ॥ २४२ ॥ अथ 'किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः | त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम्' इति च तदुक्तं तृतीयं तं ल. क्षयति- किंचिदित्यर्धेनैव । एवं लक्षितानुदाहरति त्रीनपि क्रमेण - गुरावित्यादिसार्धेनैव । गुरौ आचार्य कैवल्यं अद्वैतात्मत्वेनावस्थानलक्षणं मोक्षमि - त्यर्थः । आप्ते प्राप्ते सत्यपि । शास्त्रेति । शास्त्रगता इत्यर्थः । एतादृश्यः तद्विरः तस्य गुरोः गिरः वाच इत्यर्थः । तस्य सर्वात्मत्वेनाद्वैतशास्त्रवाचः सर्वा अपि आकरादिगता अनेकग्रन्थगताश्चेत्यर्थः । स्वदाः अद्वैतात्मप्रदाः सन्तीत्यर्थः । यथावा काव्यप्रकाशे - 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जग. न्ति गिरः कथमिह कवयो न ते वन्द्याः ॥ २४३ ॥ एवमाद्यं विशेषमुदाहृत्य द्वितीयं तमुदाहरति - कृष्ण इति । इदं हि राधिकावाक्यम् । यथावा कुवल: यानन्दे – 'हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे । वत्स राम गतोऽसीति स: तापेनानुमीयसे' इति । रसगङ्गाधरेऽपि - ' नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्तः स्थित एव स्थितिमाप रामचन्द्रः' इति। एवं तृतीयमपि तमुदाहरति-— रसमिति । शृङ्गारादिरूपम् । सः श्रुत्यन्तप्रसिद्धः चिन्मणिः अद्वैतचिच्चिन्तामणिरित्यर्थः । एवमेवोक्तं प्राप्रसलक्ष. णावसरे चतुर्थरत्ने । 'यद्वा तत्संयुतिव्यक्तस्थाय्युपाधिश्चिदेव सः' इति । यथावा रसगङ्गाधरे – 'किं नाम तेन न कृतं सुकृतं पुरारे दासीकृता न खलु का भवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलभ्या येनार्चितोऽसि करुणाकर हेलयापि' इति ॥ २४४ ॥ एवमाश्चर्यात्मक त्रिविध विशेष निरूपणप्रसक्तं व्याघातअपि द्विप्रकारं लक्षयति — कर्तेति । एकः कर्ता येन करणेन यत्कार्ये अकरोत् । यद्वा करिष्यति परः अन्यः कर्ता तेन प्रागुक्तेनैव साधनेन तदेव प्रागुक्तमेव
-
-