________________
४९२
साहित्यसारम् ।
[ उत्तरार्धे सूक्ष्मादाधेयतः सौम्यमाधारे त्वल्पमुच्यते। अतितन्व्यपि रोमालिमध्ये तस्या न दृश्यते ॥ २३९ ॥ अन्योन्यं यदि तादृक् स्यादुपकारो गुणादिना । राधास्मिताधरत्विड्भ्यां कापि शोभा परस्परम् ॥२४०॥ आलिलिङ्ग हरिः कामशरभीतस्तु राधिकाम् ।
सापि तं तादृशी फुल्लमल्लिकाकुञ्जरञ्जनात् ॥ २४१ ॥ एवमधिकप्रत्यनीक कुवलयानन्दकृदेकसंमतमल्पं लक्षयति-सूक्ष्मादिति । तुशब्दः । पूर्ववैलक्षण्यार्थः। सूक्ष्माद्दुर्लक्ष्यात्।एतादृशात् आधेयतः । वृत्तिमनोवस्तुन इत्यर्थः । आधारेऽधिकरणे । सौम्यं दुर्लक्ष्यत्वं वर्णितं चेदल्पं एतन्नामकमलंकरणमुच्यत इत्यन्वयः । तदुदाहरति-अतीति । रोमालिः प्रसिदैव । अतितव्यपि परमसूक्ष्मापि तस्याः पूर्वप्रकृतायाः कस्याश्चित्सुन्दर्या इति यावत् । मध्ये अवलग्ने न दृश्यते तस्य ततोऽप्यतिसूक्ष्मत्वान्नैव लक्ष्यत इति योजना । तदुक्तं कुवलयानन्दे–'अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता । मणिमालोमिका तेऽद्य करे जपवटीयते' इति । इदं हि विरहिणी नायिकां प्रति सखीवाक्यम् । अयि प्रियसखि । मणीति । मणीनां माला यस्यां एतादृशी या ऊर्मिका वलयाकराङ्गुलिमुद्रा सा अद्य ते करे जपवटीयते जपार्थ अर्गजा इति महाराष्ट्रदेशभाषाप्रसिद्ध कस्तूर्याद्यनेकसुरभितरद्रव्यकल्कनिर्मितरुद्राक्षाकारवटीवलयमालेवाचरतीत्यर्थः । एवं चेदृशं विरहकार्य तव संपन्नं यद्वलयाकारं रत्नाङ्गुलीयकमतिसूक्ष्मावकाशमपि ततोऽत्यनुपमसूक्ष्मे त्वत्करे ऽपि कङ्कणवत्प्रवेश्यत इत्याकूतम् । यथावा तत्रैव'यन्मध्यदेशादपि ते सूक्ष्म लोलाक्षि लक्ष्यते । मृणालसूत्रमपि तन्नैव माति स्तनान्तरे' इति ॥२३९॥ एवमाधाराधेययोरुभयोरप्यतिसौक्ष्म्यात्परस्परानुकूलत्वघटिताल्पालंकारनिरूपणप्रसक्तम् 'अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया' इति । कुवलयानन्दोक्तमन्योन्यालंकारं लक्षयति-अन्योन्यं यदीति । तादृक् अन्योन्यं यथा स्यात्तथेत्यर्थः । एतादृशः गुणादिना । आदिपदेन क्रिया ज्ञेया । एवं च गुणद्वारा क्रियाद्वारा वेत्यर्थः । उपकारोऽनुग्रहो यदि स्यात्तदा अन्योन्यं नामालंकरणं स्यादिति संबन्धः । तदुक्तं रसगङ्गाधरे-'द्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् । विशेषश्च क्रियादिरूपः । यथा-'सुदृशो जितरत्नजालया सुरतान्तश्रमबि. न्दुमालया । अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम्' । अत्र गुणरूपविशेषाधानं रुचेर्गुणत्वादिति । तदुदाहरति-राधेति । कृतेति शेषः . ॥ २४० ॥ एवं गुणद्वारकं तदुदाहृत्य क्रियाद्वारकमपि तदुदाहरति-आलिलिङ्गेति । तुरप्यर्थे । हरिरपि । एवंचास्मदादेः कैव कथेति सर्वथा दुर्जय एव कामवेग इत्याशयः । कामेति । कन्दर्पकलम्बकान्दिशीकः सन्निति यावत् । अतएव फुल्लेति । एतेन वक्ष्यमाणालिङ्गनादेर्निरुतभीतिशामकोपायल करणे कारणीभूत