Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 512
________________ ૪૬ साहित्यसारम् । सद्विद्या साधुसङ्गेन साधुसङ्गः सुकर्मणा । सुकर्म शुद्धमार्गेण शुद्धमार्गः श्रुतीया ॥ २४८ ॥ एकावली पूर्वपूर्वस्योत्तरोत्तरहेतुता । सा द्विधा स्याद्विशेष्यत्वाद्विशेषणतयापि च ॥ २४९ ॥ स विद्वान्यो विवेकी स्यात्स विवेको य आत्मदः । धर्मेण धीर्धिया त्यागस्त्यागेनामृतमश्नुते ॥ २५० ॥ [ उत्तरा मुक्ति: सगुणपक्षे सलोकतादिसार्ष्टितान्यतमावाप्तिर्निर्गुणपक्षे अद्वैतात्मसाक्षात्कारेणा विद्याध्वस्तिरित्यर्थः ॥ २४७ ॥ द्वितीयामुदाहरं स्तादृशभक्तिकारणीभूतसद्वियादिपरम्परामपि व्यनक्ति - सद्विद्येति । श्रुतीति । श्रुत्येकोक्तयावज्जीवं चेष्टयेत्यर्थः । यथावा काव्यप्रकाशे - 'जितेन्द्रियलं विनयस्य कारणं गुणप्रकर्षो वि नयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः" इति । साहित्यदर्पणेऽपि - 'श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् । लोकानुरागो विनयान्न किं लोकानुरागतः' इति । यथावा रसगङ्गाधरे - 'लभ्येत पुण्यैर्गृहिणी मनोज्ञा तथा सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः । स्वर्गापवर्गों खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः । समृद्धिमत्पेतरभागधेयं भाग्यं च शंभो तव पादभक्तिः' इति च । विस्तरस्त्वत्र तत्रैव बोध्योऽनुपयोगान्नेह प्रपञ्चित इति शिवम् ॥ २४८ ॥ एवं शृङ्खलामूलकारणमालानिरूपणप्रसक्तामेकावलीं लक्षयति — एकावलीति । एवं सामान्यतो लक्षिताया एकावल्याः पुनस्तादृग्द्वैविध्यं प्रतिबोधयति – सेत्याद्यर्धेनैव । सा एकावली पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वाद्धेतुताघटिता तथापि विशेषणतया - पि हेतुताघटिता चेति द्विधा स्यादित्यध्याहृत्य संबन्धः । तदुक्तं कुवलयानन्दे - ' गृहीत • मुक्तरीत्यार्थश्रेणिरेकावली मता' इति लक्षणं संक्षिप्य उत्तरोत्तरस्य पूर्वपूर्व विशेषणभावः पूर्वपूर्व स्योत्तरोत्तर विशेषणभावो वा गृहीतमुक्तरीतिरिति । रसगङ्गाधरेपि - 'संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली । सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधेति ॥ २४९ ॥ अथोक्तरीत्या द्विविधामपि तामुदाहरति-स विद्वानित्याद्यर्थाभ्यां क्रमेण । अत्र पूर्वपूर्वस्य विद्वानित्यादेरुत्तरोत्तरं प्रति विवेकीत्यादिप्रतिविशेष्यत्वाद्धेतुताघटितेयमिति प्रथमैकावली लक्षणसमन्वयः । धर्मेणेति । इह पूर्वपूर्वस्य धर्मादेरुत्तरोत्तरं ध्यादिकं प्रति विशेषणतया हेतुता घटितेति द्वितीया सा । यथावा काव्यप्रकाशे - 'पुराणि यस्यां सवराङ्गनानि वराङ्ग• ना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य' । ‘न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुजितो न यो न गुञ्जितं तन्न जहार यन्मनः' इति च । यथावा कुवलयानन्दे - 'नेत्रे कर्णान्तविश्रान्ते कर्णौ दोः स्तम्भदोलिनौ । दोःस्तम्भौ जानुपर्यन्तप्रलम्बनम - नोहरौ । जानुनी रत्नमुकुराकारे तस्य महीभुजः' । द्वितीया यथा - 'दिक्कालात्म

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576