________________
૪૬
साहित्यसारम् ।
सद्विद्या साधुसङ्गेन साधुसङ्गः सुकर्मणा । सुकर्म शुद्धमार्गेण शुद्धमार्गः श्रुतीया ॥ २४८ ॥ एकावली पूर्वपूर्वस्योत्तरोत्तरहेतुता । सा द्विधा स्याद्विशेष्यत्वाद्विशेषणतयापि च ॥ २४९ ॥ स विद्वान्यो विवेकी स्यात्स विवेको य आत्मदः । धर्मेण धीर्धिया त्यागस्त्यागेनामृतमश्नुते ॥ २५० ॥
[ उत्तरा
मुक्ति: सगुणपक्षे सलोकतादिसार्ष्टितान्यतमावाप्तिर्निर्गुणपक्षे अद्वैतात्मसाक्षात्कारेणा विद्याध्वस्तिरित्यर्थः ॥ २४७ ॥ द्वितीयामुदाहरं स्तादृशभक्तिकारणीभूतसद्वियादिपरम्परामपि व्यनक्ति - सद्विद्येति । श्रुतीति । श्रुत्येकोक्तयावज्जीवं चेष्टयेत्यर्थः । यथावा काव्यप्रकाशे - 'जितेन्द्रियलं विनयस्य कारणं गुणप्रकर्षो वि नयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः" इति । साहित्यदर्पणेऽपि - 'श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात् । लोकानुरागो विनयान्न किं लोकानुरागतः' इति । यथावा रसगङ्गाधरे - 'लभ्येत पुण्यैर्गृहिणी मनोज्ञा तथा सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः । स्वर्गापवर्गों खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः । समृद्धिमत्पेतरभागधेयं भाग्यं च शंभो तव पादभक्तिः' इति च । विस्तरस्त्वत्र तत्रैव बोध्योऽनुपयोगान्नेह प्रपञ्चित इति शिवम् ॥ २४८ ॥ एवं शृङ्खलामूलकारणमालानिरूपणप्रसक्तामेकावलीं लक्षयति — एकावलीति । एवं सामान्यतो लक्षिताया एकावल्याः पुनस्तादृग्द्वैविध्यं प्रतिबोधयति – सेत्याद्यर्धेनैव । सा एकावली पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वाद्धेतुताघटिता तथापि विशेषणतया - पि हेतुताघटिता चेति द्विधा स्यादित्यध्याहृत्य संबन्धः । तदुक्तं कुवलयानन्दे - ' गृहीत • मुक्तरीत्यार्थश्रेणिरेकावली मता' इति लक्षणं संक्षिप्य उत्तरोत्तरस्य पूर्वपूर्व विशेषणभावः पूर्वपूर्व स्योत्तरोत्तर विशेषणभावो वा गृहीतमुक्तरीतिरिति । रसगङ्गाधरेपि - 'संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली । सा च पूर्वपूर्वस्योत्तरोत्तरं प्रति विशेष्यत्वे विशेषणत्वे चेति द्विधेति ॥ २४९ ॥ अथोक्तरीत्या द्विविधामपि तामुदाहरति-स विद्वानित्याद्यर्थाभ्यां क्रमेण । अत्र पूर्वपूर्वस्य विद्वानित्यादेरुत्तरोत्तरं प्रति विवेकीत्यादिप्रतिविशेष्यत्वाद्धेतुताघटितेयमिति प्रथमैकावली लक्षणसमन्वयः । धर्मेणेति । इह पूर्वपूर्वस्य धर्मादेरुत्तरोत्तरं ध्यादिकं प्रति विशेषणतया हेतुता घटितेति द्वितीया सा । यथावा काव्यप्रकाशे - 'पुराणि यस्यां सवराङ्गनानि वराङ्ग• ना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य' । ‘न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुजितो न यो न गुञ्जितं तन्न जहार यन्मनः' इति च । यथावा कुवलयानन्दे - 'नेत्रे कर्णान्तविश्रान्ते कर्णौ दोः स्तम्भदोलिनौ । दोःस्तम्भौ जानुपर्यन्तप्रलम्बनम - नोहरौ । जानुनी रत्नमुकुराकारे तस्य महीभुजः' । द्वितीया यथा - 'दिक्कालात्म