________________
कौस्तुभरत्नम् ]
८
सरसामोदव्याख्यासहितम् ।
सारो गुणस्वरूपाभ्यामुत्तरोत्तरमुच्छ्रयात् । नारिङ्गश्रियमाकृष्य ततो हेमानकोशभाम् ॥ २५९ ॥ स्तनौ ते स्मरमल्लस्य स्वर्णगोलविवि । द्विजेभ्यः पण्डिताः श्रेष्ठास्तेभ्यो येऽत्र विरागिणः ॥ २५२ ॥
४९७
समैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् । यस्तत्पित्तमुषः सु योऽस्य हविषे यस्तस्य जीवातवे वोढा यद्गुणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः' इति । अत्र क्रमादाकाशसूर्यचन्द्रजलाग्नियजमानपृथ्वीवायवोऽष्टमूर्तयः ॥ २५० ॥ एवमेकावलीनिरूपणान्तर्गतोत्तरोत्तरहेतुभावप्रसक्तोत्तरोत्तरोत्कर्षात्मकं साराख्यमलंकारं लक्षयति-सार इति । गुणस्वरूपाभ्यां उत्तरोत्तर उच्छ्रयादुत्कर्षात्सारः साराभिधोऽलंकारो भवतीत्यन्वयः । एवं च क्वचिद्गुणैरुत्तरोत्तरमुत्कर्षः क्वचित्स्वरूपेणेत्यसौ द्विविध इति फलि - तम् । तदुक्तं काव्यप्रकाशे - ' उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधि:' । परः पर्यन्तभावोऽवधिर्यस्य धाराधिरोहिततया तत्रैवोत्कर्षस्य विश्रान्तेरिति । रसगङ्गाधरे तु 'गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्टये सारः' इति तु लक्षणं सारस्य युक्तमित्युक्तम् । एवमर्धेन लक्षितं सारमुदाहरन्नादौ गुणसारमुदाहरति-नारिङ्गेत्येकेन । हे प्रिये इत्यार्थिकम् । नारिङ्गाख्यः फलविशेषः प्रसिद्ध एव । एवंच ते स्तनावित्यु - त्तरश्लोकगतमप्यत्रापकर्षणीयम् । त्वत्कुचावेतौ नारिङ्ग श्रियं पूर्वं नारिङ्गाख्यप्रसिद्धफलशोभामित्यर्थः । आकृष्य मुग्धावस्थायां हृत्वेत्यर्थः । ततः तदुत्तरं मध्यावस्थायाम् । हेमेति । कनककमलकोशकान्तिम् आकृष्येत्यत्राप्यनुकृष्यम् ॥२५१॥ स्तनाविति । स्मरेति । मदनरूपमल्लस्येत्यर्थः । स्वर्णेति । मला हि मलशालायां कराभ्यां पाषाणगुटिके तोलयन्तीति प्रसिद्धमेव । तथाच मदन मल्लस्य देवत्वेन मल्लकियोचितौ कनकगोलावेव पाषाणगुटिका स्थानीयौ । तयोर्विजित्वरौ कठिनत्वङ्गखपीतकान्तिमत्त्वसमवर्तुलत्वसाधर्म्येण विजयशीलौ संप्रति प्रौढत्वदशायां भवत इत्यध्याहृत्य संबन्धः । एवं गुणप्रयुक्तोत्तरोत्तरोत्कर्षलक्षणं सारमुदाहृत्य स्वरूपकृतोत्तरोत्तरोत्कर्षलक्षणं तमुदाहरति — द्विजेभ्य इत्यर्धेनैव । अत्र त्वत्स्वनद्वय विषय इत्यर्थः । इहोदाहरणद्वितये क्रमादेकानेक विषयकत्वमपि बोध्यम् । यथावा कुवलयानन्दे – 'उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते । मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः' इति । यथावा रसगङ्गाधरे – 'जम्बीरश्रियमतिलङ्घय लीलयैव व्यानम्रीकृतकमनीय हेमकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाच लेन सार्धम्' । 'गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वीीं ततोऽपि जगदण्डम् । जगदण्डादपि गुरवः प्रलयेऽप्यचला महात्मानः' इति । अत्र पूर्वालंकारे । एतेन 'दीपकैकावलीयोगान्मालादीपक मिष्यते' इति यदुक्तं कुवलयानन्दकृता तद्भान्तिमात्रविलसितमिति यदुक्त तदेव भ्रान्तिमात्रविलसितम् । माला