________________
४९८
[ उत्तराध
साहित्यसारम् ।
उपदेशक्रमात्संबन्धो यथासंख्यमुच्यते । शिवं मोहं भवाम्भोधिं स्मर संहर निस्तर ॥ २५३ ॥ matsara पर्यायोsनेकेऽप्येकत्र चेत्क्रमात् । श्री सीमन्तास्यवक्षोजे हरिदृकू तत्र तच्चिरम् ॥ २५४ ॥
रूपकादिवन्मालादीपकस्यापि संभवात् ॥ २५२ ॥ एवं द्वितीयस्य स्वरूपात्मसारस्य क्रमात्पूर्वपूर्वापेक्षयोत्तरोत्तराधिक्यप्रसक्तं यथासंख्यं लक्षयति — उपदेशेति । अर्थानामिति त्वार्थिकमेव । सर्वत्र संबन्धस्यार्थद्वयैकायत्तत्वात् । यद्यप्येकस्मिन्नपि कुसुमे रूपरसगन्धाद्यनेकार्थप्रतियोगिकसंसर्गोऽपि दृश्यत एवाथापि तत्तत्संसर्गस्तु तत्तदेकप्रतियोगिक एवेति न काप्यनुपपत्तिः । एवं चोद्दिष्टानां पदार्थानां यथाक्रमं विधेयैः सुबन्तादिपदार्थैः समन्वयो यथासंख्यमिति तल्लक्षणं पर्यवसितम् । तदुक्तं कुवलयानन्दे—' यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः । शत्रु मित्रं विपत्तिं च जय रञ्जय भञ्जय' इति । उपदेशक्रमेणार्थानां संबन्धो यथासंख्यमिति रसगङ्गाधरोपि । तदुदाहरति- शिवमिति । यथावा रसगङ्गाधरे - 'यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबल कान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः' इति ॥ २५३ ॥ एवं यथासंख्य निरूपणीयक्रामिकान्वयप्रसक्तं द्विविधमपि पर्यायालंकारं लक्षयति- एक इति । एकः पदार्थः क्रमात् अनेकत्र अनेकेष्वाधारीभूत पदार्थेष्वाधेयत्वेन वर्ण्यते चेदेकः पर्यायो भवति । तथा अनेकेप्याधेयीभूताः पदार्थाः क्रमादेकत्राधारे वर्ण्यन्ते चेत्सोऽप्यपरः पर्यायोऽस्तीति योजना । तदुक्तं कुवलयानन्दे - ' पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः । पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनप्रभा' इति । 'एकस्मिन्नप्यनेकं वा पर्याय: सोऽपि संमतः । अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि' इति च । रसगङ्गाधरेषि क्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः क्रमेणानेकाधेयकमेकमधिकरणमपर इति । उभावपि क्रमादुदाहरति- श्रीत्यादिना । हरिदृक् विष्णुदृष्टिः । श्रीति । लक्ष्मी कबरीवदनस्तनद्वय इत्यर्थः । चिरं आसेति शेषः । एतेनाद्य उक्तः । तन हरिदृशि तलक्ष्मीसीमन्तादिकं क्रमाद्विषयतासंबन्धेन चिरमासेति द्वितीयोऽपि । यथावा काव्यप्रकाशे – 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्ता: स्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं च व त्वद्गात्राणां गुणविनियमः कल्पितो यौवनेन' इति । इदं प्रथमे । द्वितीये तु यथा रसगङ्गाधरे – 'विदूरादाश्चर्ये स्तिमितमथ किंचित्परिचयादुदञ्चच्चाञ्चल्यं तदनु परि तः स्फारितरुचि । गुरूणां संघाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनयुगमिन्दीवरदृशः' इति । अत्राचर्यस्तिमितत्वाद्यार्धेयमेव भिन्नकालिकं धर्मजातं बोध्यम् । किं चात्र कुवलयानन्दोदाहरणे दूषणं पण्डितराजैरुकं बिम्बोष्ठ एवेत्यत्र । अधुना पुलिनं तत्रेत्यत्र चानुदाहरणत्वादिलो कि कत्वादिना
1