________________
४९९
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
परस्परं विनिमयः परिवृत्तिस्तु वस्तुनोः। पक्कपर्णाशनं त्यक्त्वा जगृहेऽर्धमुमा विभोः ॥ २५५ ॥ परिसंख्यकमाबाध्य परत्रार्थस्य निश्चितिः।
चेतः स्मरसि चेद्विष्णुं स्मर नो परसुन्दरीम् ॥ २५६ ॥ तत्केचिन्मतत्वेनैव समाधेयमिति रहस्यम् ॥ २५४ ॥ एवं पर्यायनिरूपणीयाधाराधेयभावप्रसक्तां श्रीमदप्पय्यदीक्षितैः 'परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । जग्राहैक शरं मुक्त्वा कटाक्षान्त्स रिपुश्रियाम्' इति । कुवलयानन्दोक्तां परिवृत्तिं लक्षयति-परस्परमिति । तामुदाहरति-पक्केति । विभोर्व्यापकस्य प. रमार्थतो भून्नः श्रीशंकरस्येत्यर्थः । अर्धं वामाधभागमिति यावत् । एतेन विभुपदध्वनितत्रिविधपरिच्छेदशून्यस्याप्यर्धमुमापक्वपर्णाशनमपि त्यक्त्वा जगृह इत्यद्भुतरसोऽपि द्योतितः। रसगङ्गाधरे त्वत्रानेकप्रकारकत्वमप्युक्तम् । तद्यथा परकीययत्किंचिद्वस्त्वादानविशिष्टं परस्मै खकीययत्किंचिद्वस्तुसमर्पणं परिवृत्तिः । क्रय इति यावत् । साच तावद्विविधा समपरिवृत्तिर्विषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा । उत्तमैरुत्तमानां न्यूनैन्यूँनानां चेति । विषमपरिवृत्तिरपि तथा। उत्तमैन्यूनानां न्यूनैरुत्तमानां चेति । क्रमेणोदाहरणानि–'अङ्गानि दत्वा हेमाङ्गि प्राणान्त्रीणासि चेनृणाम् । युक्तमेतन तु पुनर्लोचनाम्बुरुहद्वयम्' । अत्र पूर्वार्ध एव समपरिवृत्तिरुत्तरार्धे तु विषमैव । 'अस्थिमालामयीं दत्वा मुण्डमालामयीं तनुम् । गृह्णतां त्वत्पुरस्थानां को लाभः स्मरशासन' । 'गरिमाणमर्पयित्वा लघिमानं कुचयुगात्कुरङ्गशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय' । 'किमहं कथयामि योषितामधरं बिम्बफलं समर्थ याः । सुरसानि हन्ति हन्त 'हा विदुषां पुण्यफलानि सत्वरम्' इति । मदुदाहरणे तु न्यूनप्रदानेन महत्तमाःदानमेवेति ॥ २५५ ॥ एवं क्रयपर्यायीभूतोभयापेक्षपरिवृत्तिप्रसक्तां परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम् । स्नेहक्षयः प्रदीपेषु न खान्तेषु नतध्रुवाम्' इति कुवलयानन्दोक्तां परिसंख्यां लक्षयति-परिसंख्येति । तदुक्तं रसगङ्गाधरे'सामान्यतः प्राप्तस्यार्थस्य कस्माचिद्विशेषायावृत्तिः परिसंख्या इति । तामुदाहरतिचेत इति । काव्यप्रकाशे त्वस्याश्चातुर्विध्यमुक्तम् । 'किंचित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता' । प्रमाणान्तरावगत. मपि वस्तुशब्देन प्रतिपादितं प्रयोजनान्तराभावात्सदृशवस्त्वन्तरव्यवच्छेदाय यत्पर्यवस्यति सा भवेत्परिसंख्या । अत्रच कथनं प्रश्नपूर्वकं तदन्यथा च परिदृष्टम् । तथोभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारोऽस्य भेदाः । क्रमेणोदाहरणानि–'किमासेव्यं पुंसां सविधमनवद्यं गुसरितः किमेकान्ते ध्येयं चरणयुगुलं कौस्तुभभृतः। किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति' । 'किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति