Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 506
________________ ४९० साहित्यसारम्। [उत्तरार्धे विधाता । यनिम्बानां परिणतफलस्फीतिरावादनीया यचैतस्याः कवलनकलाकोविदः काकलोकः' इति । यथावा साहित्यदर्पणे रघुवंशीय पद्यमिन्दुमत्यजोद्वाहकालिकम्-'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जझुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवत्रुः' इति । यथावा रसगङ्गाधरे गङ्गालहरीपद्यम्-'अनाथः स्नेहार्दो विगलितगतिः पुण्यगतिदां पतन्विश्वोद्धी गदविदलितः सिद्धभिषजम् । तृषार्तः पीयूषप्रकरनिधिमत्यन्तशिशुकः सवित्री प्राप्तस्त्वामहमिह विदध्याः समुचितम्' इति । अत्र पीयूषप्रकरनिधिमिति प्रकरपदमधिकमपि च्छन्दोनुरोधेन नैवेक्षितम् । पीयूषनिधिमित्येतावतैव चारितार्थ्यात् । एवम् 'कुवलयलक्ष्मी हरते तव किर्तिस्तत्र किं चित्रम् । यस्मानिदानमस्यालोकनमस्याङ्ग्रिपङ्कजस्तु भवान्' इति प्राथमिकोदाहरणे कीर्तेः कुवलयलक्ष्मीहारकत्वं यदुक्तं तत्र कीर्तेः सर्वत्र कविसमये शुक्लत्वप्रसिद्धेः कुवलयशोभायास्तु 'स्यादुत्पलं कुवलयम्' इत्यमरटीकायां रामाश्रम्यां द्वे कुमुद. कमलादीनां सामान्येनेत्युक्तत्वात्कुवलयमिन्दीवरं चेति नाममालावचनाच शुक्ललादिना संदिग्धत्वेन तत्प्रतिमहत्वानौचित्यमेव । तथाच कैरवलक्ष्मी हरत इत्यसंदिग्धप्रयोग एवेज्यः । एवं च यद्विषमालंकारे कुवलयानन्दे दूषणमुक्तं तत्वदोषाणामप्यनभिज्ञत्वात्तुच्छमेव । तद्यथा-यत्तु 'अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थे समुद्यमात्' इति विषमभेदलक्षणं निर्माय अपिशब्दसंगृहीततया इष्टानवाप्तिश्चेति प्रत्येकमपि विषमपदेनान्वय इत्युक्तं कुवलयानन्दकृता । तन्न । अव्युत्पत्तेः । अस्मिन् ग्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसमुचि. तस्य विद्यादेव्यान्वयिन्येवान्वयाव्यस्य लाभो विद्यायाश्च लाभ इति धीरिति निर्वि. वादम् । प्रकृते त्वनिष्टस्याप्नोतिनान्वय इष्टानवाप्तेश्च तच्छब्दपरामृष्टेन विषमेणेति वैषम्यात् । प्रत्युत लक्षणवाक्येऽपिशब्दोऽनिष्टां धियमुत्पादयति । अनिष्टस्याप्तिरिष्टस्य चेति प्रतीतेः चकारसमुच्चितया इष्टानवाप्या अनिष्टावाप्तेरेकवारं मि. लितायास्तत्पदपरामृष्टेन विषमेणान्वयाद्वाक्यावृत्त्या वारान्तरे च प्रत्येकमन्वयातेंदत्रयसंग्रह इति तु स्यादपि । नत्वपिशब्दविकत्थनमिति । तत्र इष्टार्थे समुद्यमात् अनिष्टस्य अवाप्तिः तद्विषमं, तथा अपिशब्दसंगृहीता इष्टानवाप्तिश्च तद्भवतीति अपिशब्दस्यावाप्तिपदोत्तरमेवान्वयोऽभिमत इति व वैषम्यावकाशः। नह्यपेः स. र्वत्र काव्ये समभिव्याहृतेन सहैवान्वयनयत्यम् । यथा तवैव 'स्मृतापि तरुणातपं करुणया हरन्ती नृणामभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् । कलिन्दनगन. न्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी' इति । काव्ये स्मृतापि तथा करुणया नृणां तरुणातपमपि हरन्तीत्यपिशब्दस्यावृत्त्यान्यत्रान्वयस्यापि दृष्टत्वात् । 'अपि प्रायश्चित्तप्रसरणपथातीतचरितानरानूरीकर्तुं त्वमिव जननि त्वं विजयसे' इत्यत्र प्रायश्चित्तप्रसरणपथातीतचरितानपीति समभिव्याहृतादुत्तरान्वयस्याप्यावश्यकत्वाच । तस्मात्तद्वाक्यान्वयस्य तवैव व्युत्पत्त्यभावमू

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576