________________
४९० साहित्यसारम्।
[उत्तरार्धे विधाता । यनिम्बानां परिणतफलस्फीतिरावादनीया यचैतस्याः कवलनकलाकोविदः काकलोकः' इति । यथावा साहित्यदर्पणे रघुवंशीय पद्यमिन्दुमत्यजोद्वाहकालिकम्-'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जझुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवत्रुः' इति । यथावा रसगङ्गाधरे गङ्गालहरीपद्यम्-'अनाथः स्नेहार्दो विगलितगतिः पुण्यगतिदां पतन्विश्वोद्धी गदविदलितः सिद्धभिषजम् । तृषार्तः पीयूषप्रकरनिधिमत्यन्तशिशुकः सवित्री प्राप्तस्त्वामहमिह विदध्याः समुचितम्' इति । अत्र पीयूषप्रकरनिधिमिति प्रकरपदमधिकमपि च्छन्दोनुरोधेन नैवेक्षितम् । पीयूषनिधिमित्येतावतैव चारितार्थ्यात् । एवम् 'कुवलयलक्ष्मी हरते तव किर्तिस्तत्र किं चित्रम् । यस्मानिदानमस्यालोकनमस्याङ्ग्रिपङ्कजस्तु भवान्' इति प्राथमिकोदाहरणे कीर्तेः कुवलयलक्ष्मीहारकत्वं यदुक्तं तत्र कीर्तेः सर्वत्र कविसमये शुक्लत्वप्रसिद्धेः कुवलयशोभायास्तु 'स्यादुत्पलं कुवलयम्' इत्यमरटीकायां रामाश्रम्यां द्वे कुमुद. कमलादीनां सामान्येनेत्युक्तत्वात्कुवलयमिन्दीवरं चेति नाममालावचनाच शुक्ललादिना संदिग्धत्वेन तत्प्रतिमहत्वानौचित्यमेव । तथाच कैरवलक्ष्मी हरत इत्यसंदिग्धप्रयोग एवेज्यः । एवं च यद्विषमालंकारे कुवलयानन्दे दूषणमुक्तं तत्वदोषाणामप्यनभिज्ञत्वात्तुच्छमेव । तद्यथा-यत्तु 'अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थे समुद्यमात्' इति विषमभेदलक्षणं निर्माय अपिशब्दसंगृहीततया इष्टानवाप्तिश्चेति प्रत्येकमपि विषमपदेनान्वय इत्युक्तं कुवलयानन्दकृता । तन्न । अव्युत्पत्तेः । अस्मिन् ग्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसमुचि. तस्य विद्यादेव्यान्वयिन्येवान्वयाव्यस्य लाभो विद्यायाश्च लाभ इति धीरिति निर्वि. वादम् । प्रकृते त्वनिष्टस्याप्नोतिनान्वय इष्टानवाप्तेश्च तच्छब्दपरामृष्टेन विषमेणेति वैषम्यात् । प्रत्युत लक्षणवाक्येऽपिशब्दोऽनिष्टां धियमुत्पादयति । अनिष्टस्याप्तिरिष्टस्य चेति प्रतीतेः चकारसमुच्चितया इष्टानवाप्या अनिष्टावाप्तेरेकवारं मि. लितायास्तत्पदपरामृष्टेन विषमेणान्वयाद्वाक्यावृत्त्या वारान्तरे च प्रत्येकमन्वयातेंदत्रयसंग्रह इति तु स्यादपि । नत्वपिशब्दविकत्थनमिति । तत्र इष्टार्थे समुद्यमात् अनिष्टस्य अवाप्तिः तद्विषमं, तथा अपिशब्दसंगृहीता इष्टानवाप्तिश्च तद्भवतीति अपिशब्दस्यावाप्तिपदोत्तरमेवान्वयोऽभिमत इति व वैषम्यावकाशः। नह्यपेः स. र्वत्र काव्ये समभिव्याहृतेन सहैवान्वयनयत्यम् । यथा तवैव 'स्मृतापि तरुणातपं करुणया हरन्ती नृणामभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् । कलिन्दनगन. न्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी' इति । काव्ये स्मृतापि तथा करुणया नृणां तरुणातपमपि हरन्तीत्यपिशब्दस्यावृत्त्यान्यत्रान्वयस्यापि दृष्टत्वात् । 'अपि प्रायश्चित्तप्रसरणपथातीतचरितानरानूरीकर्तुं त्वमिव जननि त्वं विजयसे' इत्यत्र प्रायश्चित्तप्रसरणपथातीतचरितानपीति समभिव्याहृतादुत्तरान्वयस्याप्यावश्यकत्वाच । तस्मात्तद्वाक्यान्वयस्य तवैव व्युत्पत्त्यभावमू