________________
४८९
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । शिरीषमृद्वङ्गी व तादृङ्मदनज्वरः' इति । रसगङ्गाधरेपि 'अननुरूपसंसर्गो विषमम्' इति । तदुदाहरति-कराधेति । यथावा कुवलयानन्द एव–'अभिलषसि यदीन्दो वक्रलक्ष्मी मृगाक्ष्याः पुनरपि सकृदब्धौ मज संक्षालयाङ्कम् । सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय यदि नोचेत्त्वं क तस्या मुखं क्व' । 'लोके कलङ्कमपहातुमयं मृगाङ्को जातो मुखं तव पुनस्तिलकच्छलेन । तत्रापि कल्पयसि तन्वि कलङ्करेखां नार्यः समाश्रितजनं हि कलङ्कयति' इतिच । यथावा रसगङ्गाधर एव'खञ्जनदृशा निकुजं गतवत्या गां गवेषयितुम् । अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकातू' इति । पक्षे गावः इन्द्रियाणि । यथावा तत्रैवाने-'रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम् । शिवशिव सुदृशः सकले जाता सकलेवरे जगत्यरुचिः' । 'प्रभातसमयप्रभां प्रणयिनी हुवाना रसादमुष्य वदनाम्बुजं सपदि पाणिनाऽमीलयत् । अनेन खलु पद्मिनीपरिमलालिपाटच्चरैः समीरशिशुकैश्चिरादनुमिये दिनेशोदये' इति । अत्र काव्यप्रकाशसाहित्यदर्पणप्रतापरुद्रीयकुवलयानन्दरसगङ्गाधरेषु यावन्तो विषमालंकारभेदाः प्रतिपादितास्ते सर्वेऽप्यननुरूपसंसर्गत्वेनैकरूप्यादत्रैवान्तर्भाव्याः । एवं कुवलयानन्दोपरि रसगङ्गाधरकारैर्यानि दूषणान्युपन्यस्तानि तान्यपि प्रागुक्तसमाधानदिशैव निरसनीयानीति ॥ २३५॥ अथ विषमप्रतिद्वन्द्वि समं लक्षयति-अनुरूपस्त्विति । तुशब्दः पूर्ववैलक्ष. ण्यार्थः । तदुक्तं कुवलयानन्दे-'समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः । खानुरूपकृतं सम हारेण कुचमण्डलम्' इति । तदुदाहरति-वैदेहीति । विदेहस्य गोत्रापत्यं कन्या भगवती सीतेत्यर्थः। पक्षे सप्तमभूमिकाभिधनिरङ्कुशतृप्त्यात्मकविदेहावस्थेति यावत् । रघुनाथेन भगवता श्रीरामेण सहेत्यर्थः । पक्षे रलयोः साव
ल्लिघूनां मादृशां क्षुद्राणां नाथेन अद्वैतब्रह्मविद्यादिना सकलानिष्टनिवृत्तिपूर्वक. सकलेष्टका श्रीगुरुणा सहेति यावत् ।युक्ता गार्हस्थ्यादिधर्मानुष्ठानकरणयोग्याऽ. भवदित्यार्थिकम् । पक्षे कैवल्यलीलानुभवनयोग्याऽभूदिति शेषः । नन्वेवं नायिकाया एवोत्तमनायकसाहित्याद्धन्यत्वं ध्वनयता भवता नायकस्यौत्कट्येपि तदपेक्ष. या तस्यां रूपगुणादिना न्यूनत्वेनानुरूपत्वं नैवोक्तं । तथाच तस्यास्तत्र सर्वात्मना प्रेमप्राचुर्येऽपि तस्य तस्यां तदभावात्समानुरागकः शृङ्गारो नैव स्यादित्यत आहसोऽपीत्यादिशेषेण । सोऽपि रघुनाथोऽपि । तया वैदेह्या सह युक्त इति प्राग्वत् । गार्हस्थ्यादिधर्माननुष्ठातुमित्यर्थ समाजायातमेव । इति हेतोः परस्परा. नुरूपसंसर्गेण अलं 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमराद्विश्वस्यापीदं भूषणमेवासेति संबन्धः । पक्षेऽप्येवमेव। यथावा काव्यप्रकाशे-'धातु: शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तयत्नः स्मरस्य । जातं दैवात्सदृशमनयोः संमतं यत्तदेतच्छृङ्गारस्योपमतमधुना राज्यमेकातपत्रम्' इति । एवं सद्वस्तुयोग्यसंसर्गे समुदाहृत्यासद्वस्तुयोग्यसंसर्गविषयेऽपि तत्रैवाग्रे । यथा. वा-'चित्रं चित्रं बत बत महचित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता