________________
४८८
साहित्यसारम्।
[ उत्तरार्धे
कर्तुमिष्टाद्विरुद्धस्य कार्यस्य कृतिरप्यसौ। अङ्गरागं वितन्वानाऽनङ्गरागं ततान सा ॥ २३४॥ संसर्गोऽननुरूपस्य विषमं प्रोच्यते बुधैः ।
क्व राधा मालतीमृद्धीक्क हरे विरहानलः ॥ २३५ ॥ ॥ २३३ ॥ कर्तुमिष्टादिति । असावसङ्गतिरित्यर्थः । तामुदाहरति-अङ्गेति । खशरीरे काश्मीरकर्दमेनालेपनमित्यर्थः। वितन्वाना विस्तारयन्तीसती सा पूर्वप्र. कृता नायिकेत्यर्थः । अनङ्गेति । कामसंतर्पणविषयकप्रेमाणमिति यावत् । ततान प्राग्वत्तद्रष्टवपत्यवच्छेदेनैव विस्तारयामासेत्यर्थः । अत्र कर्तुमिष्टादङ्गरागाद्विरुद्धस्य अनङ्गरागाख्यस्य कार्यस्य कृतिरिति लक्षणसंगतिः। अत्र रसगङ्गाधरकारैः प्रागुत्कालंकारविशेषान्त वादेवेदं प्रकारद्वयमपि नैव पृथक्कथनीयमित्युक्तम् । तद्यथा तत्र तावत् 'अपारिजातां वसुधां चिकीर्षन् द्यां तथा कृथाः' इत्यत्र पारिजातराहित्य चिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैयधिकरण्योपनि। बन्धात् ‘विरुद्धभिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति प्राथमिकासंगतितो वैलक्षण्यानुपपत्तरिति प्रभृतिना प्रथमभेदे प्रथमप्रकारस्यान्तर्भावमुपपाद्य गोत्रोद्धारप्रवृत्तोपीत्युदाहरणे तु 'विरुद्धकार्यसंपत्तिदृष्टा काचिद्विभावना' इति पञ्चमविभावनालक्षणाक्रान्तत्वाद्विभावनयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । गोत्रोद्धारविषयकप्रवृत्तेर्गोत्रोद्भेदरूपकार्यविरुद्धत्वात्सिद्धान्तेऽपि विभावनाविशेषोक्त्योः सं. कर एवात्रोचित इति । अत्रोच्यते-'अपारिजातां वसुधां चिकीर्षन द्यां तथा कृथाः' इत्यत्र पारिजातराहि त्यचिकीर्षया कारणभूतयेत्यादि यदुक्तं तदेव तदाशयानवबोधनिबन्धनम् । तथाहि अत्र कृष्णं प्रति शक्रस्योपालम्भवचने चिकीर्षिततयान्यत्र करणीयमपारिजातत्वं दिवि कृतमित्येकासंगतिरिति कुवलयानन्द एव व्याख्यातम् । तत्र अन्यत्र पृथिव्यां करणीयं अपारिजातत्वं अपगतं अरिजातं खशत्रुसामान्यं यस्याः सकाशात्सा अपारिजाता तस्याः भावः अपारिजातत्वमित्येव विग्रहस्य तत्पक्ष इष्टत्वं नतु त्वदुक्तं पारिजातराहित्यं । तस्यात्र पृथिव्यां प्रागेव सिद्धत्वेन तद्विषयकचिकीर्षानौचित्यात् । एवंच कथं प्राथमिकासङ्गत्यन्तीवोऽस्य भेदस्य । तस्माद्भुवि अपारिजातत्व यत्कर्तव्यं तत्त्वया दिवि कृतमिति 'अन्यत्र कर• णीयस्यततोऽन्यत्र कृतिश्च सा'इति लक्षणलक्षितमिदमसंगत्यन्तरं पूर्वस्माद्विलक्षणमेव। एवं गोत्रोद्धारेत्यादावपि विरुद्धकार्यसंपत्तिरूपपञ्चमविभावनान्तर्भूतत्वमप्ययुक्तमेव । तत्र हि चन्द्रकिरणानां कारणीभूतानां संतापकत्वं कार्य विरुद्धमेव । प्रकृते तु चिकीर्षाविषयीभूतवस्तु विरुद्धमेव तदिति भेदादन्यत्कर्तुमित्यादिलक्षणलक्षितत्व. मेवेति सर्वमवदातम् ॥ २३४ ॥ एवं त्रिविधासङ्गतिप्रसङ्गाद्विषमं लक्षयतिसंसर्ग इति । अननुरूपस्य अयोग्यस्य वस्तुनो यो वस्त्वन्तरेण सह संसर्गः सा. मान्यतो यः कोऽपि संबन्धो वर्ण्यते तद्विषममलंकरणं बुधैरालंकारिकैः प्रोच्यत इत्यन्वयः। तदुक्तं कुवलयानन्दे–'विषमं वर्ण्यते यत्र घटनाऽननुरूपयोः । क्वेयं