Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 471
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । प्योक्तम् । तच्च द्वेधा अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आयं द्वेधा। अनेकशब्दप्रतिभानद्वारैकशब्दप्रतिभानद्वारा चेति त्रिविधः श्लेषः । तत्राद्यः सभङ्गः । द्वितीयोऽभङ्ग इति वदन्ति । तृतीयस्तु शुद्धः । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रिविधः । तत्राये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचारः । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य । तथात्वे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात् । विशेषणमात्रश्लिष्टतायामपि प्रकृताप्रकृतधर्मिणोरुपादान एव श्लेषः । प्रकृतधर्मिमात्रस्योपादाने तु समासोक्तेरेव विषय इति । अत्रानेकधर्मपुरस्कारेणैकश्रुतिकर्तृकानेकार्थप्रतिपादनपक्षस्यानेकशब्दप्रतिभानद्वारकत्वैकशब्दप्रतिभानद्वारकत्वभेदेन द्वैविध्यमादावभिधायानन्तरं प्रथमविकल्पावशिष्टैकधर्मपुरस्कारकरणकैकश्रुतिकर्तृकानेकार्थबोधनलक्षणश्लेषभेदेन सह त्रिविधस्यापि पुनः प्रत्येकं प्रकृतमात्राद्याश्रयभेदेन त्रैविध्यमुक्तम् । त्वयातु शुद्धाख्यार्थस्यैवैकधर्मपुरस्कारकरणकैकश्रुतिकर्तृकानेकार्थप्रतिपादनात्मकश्लेषभेदस्यैव प्रथमं प्रतिपादनं विधाय तदुत्तरमुक्तशब्दश्लेषभेदद्वयेन सह त्रिविधस्यापि तस्य पुनस्तद्वदेव प्रत्येकं प्रकृताद्याश्रयभेदेन नवविधत्वमुपपादितमिति स्फुटमेव मूलीभूतेन तेन सह त्वदुक्तेर्वैषम्यमिति चेत्सत्यम् । तत्रतुशब्दमन्तराऽर्थोपस्थित्यभावात्काव्ये शब्दस्यैव प्राधान्यविवक्षया तद्भेदद्वयस्यैव प्रथमं प्रपञ्चनमकारि । मया तु काव्ये सामान्यतः शब्दात्मकत्वेन तत्प्राधान्येपीहार्थालंकारप्रकरणेऽर्थस्यैव प्राधान्यं ध्वनयताऽर्थश्लेषाभिधतद्भेदस्यैव प्रथमं प्रतिपादनं प्रपञ्चितमित्यभिसंधिभेदात्पद्धतिभेदेऽपि सिद्धान्ताविरोधानैव मम तद्न्थेन सह विरोधगन्धोपीत्यतः प्रोक्तलक्षणा नवापि श्लेषभेदाः श्लोकचतुष्टयेन प्रोदाहरिष्यता प्रथमं प्रकृतमात्राश्रितार्थापरनामकशुद्धाख्यसकृच्छ्रुतिकर्तृ. कैकधर्मपुरस्कारकरणकानेकार्थबोधनलक्षणश्लेषभेदःसमुदाह्रियते-रक्तेत्यर्धेनैव। रक्तौ गुरुशिष्यवरत्वसाम्यलाभेन सर्वात्मना परस्परमनुरक्तौ कृष्णार्जुनौ यस्यां सा तथा, पक्षे कोणाद्यवच्छेदेन शोणश्यामशुक्लवर्णेत्यर्थः । एतादृशी गीता भगवद्गीता प्रसिद्धैव । गुरुदृष्टिः गुर्वी महती दृष्टिरद्वैतात्मविषयकत्वेन प्रमा यया सा तथेत्यर्थः। एतादृशी सती नः अस्मान्प्रति पुनातु द्वैतापावित्र्यापहारेण सद्यः खानन्दाद्वैतसच्चिदमृतैकरूपताऽपादनतः शुद्धतां नयत्वित्यन्वयः । पक्षे गीताश्रुत्यादिषु परमपूज्यत्वेन संकीर्तितेत्यर्थः । एतादृशी गुरुदृष्टिः । श्रीगुरोः कृपादृष्टिरिति यावत् । शिष्टंतु प्राग्वदेव । अत्र गीतागुरुदृष्टयोरुभयोरपि वर्ण्यत्वेन प्रकृतत्वादेकशब्दस्य सभङ्गत्वादिवक्ष्यमाणोपाधिना विभिन्नार्थत्वाभावाच प्रकृतमात्राश्रितत्वमेकधर्मपुरस्कारकरणकत्वं तथा आवृत्या पदयोजनाभावात्सकृच्छ्रुत्येककर्तृकानेकार्थज्ञापनत्वमर्थमात्रप्राधान्येन शुद्धापरनामकार्थश्लेषत्वं चेति लक्षणसंगतिः । एवं शान्ताख्यव्यज्यमानरसोपस्कारकत्वचारुत्वाभ्यामलंकारत्वमपि बोध्यम् । यथावा काव्यप्रकाशे-'श्लेषः स वाक्य एकस्मिन्यत्रानेकार्थता भवेत्' इति लक्षणकारिकार्धम् ।

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576