Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 474
________________ ४५८ साहित्यसारम् । . [उत्तरार्धे भूतये भवताम्' इति । यथावा मदीये गीतसीतापतौ–'बाणः श्लिष्यति सूपमा वितनुते श्रीकालिदासः खयं कारुण्यं भवभूतिरेव कुरुते श्रीहर्ष उत्प्रेक्षते । शृङ्गारं जयदेवपूजितपदो गोवर्धन: सेवते वीर्य चारुमुरारिरेव च जगन्नाथः प्रसाद परम्' इति । अत्र बाणाद्यष्टकविपक्षेऽर्थः स्फुट एव । स्मरशरपक्षे दिङ्मात्रमुच्यते। बाणः वक्ष्यमाणाचिन्त्यसामर्थ्यादत्र मदनस्यैव । यदाश्लिष्यति तद्धनुमौर्वीमालिङ्गिष्यति तदा खयम् । श्रीति । श्रियः लक्ष्म्याः कं सुखं याभिरेतादृश्यः या आलयस्तत्सख्यस्तासां मानावस्थायां तत्प्रसादनार्थ तनुते खानुकूल्येन विस्तारय. तीत्यर्थः । तथा भवेति । भवाच्छिवाद्भूतिरुत्पत्तिर्यस्य स एकः स्कन्द एवापत्नीकत्वात्कारुण्यं कुरुते शोचतीत्यर्थः । एवं श्रीहर्षः लक्ष्म्यवतारीभूतत्वाच्छ्रिया सीतया हर्षः यस्य स रामः उत्प्रेक्षते भूयस्तामेव पश्यतीत्यर्थः। तद्वत् । जयति। जयविजयप्रमुखदेवार्चितचरण इत्यर्थः । एतादृकू गोवर्धनः गवां वर्धनं येन तथा श्रीकृष्णः । वीर्यमित्यादि। उक्कावस्थाद्वय एव स वीर्यादि सेवतेऽन्यदा तु शृङ्गारमेवेति योज्यम् । तस्मादद्भुतं कामवीर्यमिति । एवं चैते श्लेषालंकारस्य शुद्धापरनामकार्थशाब्दान्तर्गतसभङ्गाभङ्गाख्यास्त्रयो भेदाः क्रमात्प्रकृतमात्रार्थद्वयाश्रिताः समु. दाहृता इदानीं त्रयाणामपि प्राक्प्रतिपादितप्रकृतमात्राश्रितत्वादिभेदेन त्रैविध्यानवविधभेदमध्येऽवशिष्टभेदषट्के निरुक्कक्रमप्राप्तं शुद्धाख्यार्थश्लेषभेदस्याप्रकृतार्थद्वयपरं भेदमुदाहरति-प्रियास्येति । इदं हि भगवतः शंकरस्यैव वामाङ्कस्थितोमामुखमवेक्ष्य खमनसि वाक्यम् । प्रिया मत्प्रेमपात्रीभूतेयं गौरी । अस्याः यदिदमास्यं मुखं तदने तत्पुरस्तादित्यर्थः । रवीति । रवेः सूर्यस्य ज्योतिः किरणास्तै सितौ क्रमाद्विकासितोद्भासितौ एतादृशौ यावब्जौ अब्जं चाब्जश्चाब्जौ 'अब्जो जैवातृकः सोमः' इत्यमरात्सूर्यकिरणानामेवाम्मयमण्डलविशेषसनिकर्षण तत्प्रतिबिम्बस्यैव चन्द्रतया ज्योतिःशास्त्रप्रसिद्धत्वाच्च कमलकलानिधी तयोर्याः श्रियः शोभास्तास्तथेत्यर्थः । तृणं तृणतुल्यास्तुच्छाः सन्तीति संबन्धः । एतेन कमलस्य दिवैव विकसितत्वेन रम्यत्वाच्चन्द्रस्य तु रात्रावेव कान्तिमत्त्वेन तथात्वाद्गौरीमुखस्य तु निसर्गसिद्ध सार्वदिकमन्दस्मितशालित्वेन परमरम्यत्वात्तदग्रे किंचित्कालिकरम्यत्वाभासयोः कमलकलानिध्योः प्रसिद्धशोभानां तुच्छत्वमुचितमेवेति सूच्यते । अत्र कमलकलानिध्याख्या प्रकृतार्थद्वय एव रवीत्यादिपदश्लेष. विषयत्वादप्रकृतार्थद्वयाश्रयत्वमर्थश्लेषीयभेदत्वं चेति लक्षणसमन्वयः । यथावा रसगङ्गाधरे–'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता । सुन्दरि तवाननाग्रे कमलामा विगलितप्रतिभा' इति । अत्र कमलाभेति विशेष्यवाचकपदे कमलपक्षे सांगत्येऽपि लक्ष्मीपक्षे उपमेयत्वेन विवक्षितसुन्दर्याननस्योपमानीभूता लक्ष्मीकान्तिर्लक्ष्मीर्वानुचितैवेति प्रतिभाति । काव्यादौ सर्वत्र कमलचन्द्रयोरेव मुखोपमानत्वेन विस्पष्टत्वात्तद्वलक्ष्म्यास्तथा क्वाप्यदृष्टचरत्वाचेति किमत्र तत्तत्त्व

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576