Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४६२ . . साहित्यसारम् ।
[ उत्तरार्धे दयस्य हरणं विषयेभ्यः सकाशादाकर्षणं तत्र निपुणः । सरलेति । सुशीलश्रेष्ठः श्रितेति आलम्बिताखण्डचन्द्रखण्डमण्डललक्षणशिवाख्यसगुणब्रह्मक इत्यर्थः। यद्वा निरन्तराश्रितगुणवानित्यर्थः । तत्रापि चन्द्रेत्यादि । श्रीचन्द्रचूडं निरन्तरं वर्णय. नित्यर्थः । एतादृशः सहस्रति । सहस्रं संख्यया अभितः शयाः हस्ताः यस्य स तथा । तस्य सहस्रभुजत्वं प्रसिद्धम् । बाणः बाणासुर इत्येतत् । जयतीत्यु. कार्थे । यथावा तत्रैव-इह शब्दरूपमात्रग्रहणचणाः प्रायशो भवन्त्यखिलाः । सुदृशां हृदयग्राही भवति सहस्त्रेषु कोऽप्येकः' इति । अयमर्थः । इह लोके । शब्देति । सुबन्तादिविभक्तिरूपमात्रज्ञानप्रख्याताः एतादृशोऽपि प्रायशः बाहुल्येन नतु नियमेन । अखिला भवन्तीति संबन्धः । ततः किं तत्राह-सुह. शामित्यादि । सुदृशां विज्ञानशालिनां ग्रन्थकृतामित्यर्थः । हृदयेति । रहस्य. ग्रहणशील इति यावत् । एतादृशस्तु पुरुषः सहस्रेषु कोऽप्येको भवतीत्यन्वयः । तादृशः पुरुषपुंगवः सुदुर्लभ एवेति भावः । अयमर्थः प्रकृतो निबन्धाशयज्ञपक्षे । शृङ्गारपक्षे तु शब्देति सुदृशामित्यादौ योज्यम्। मृगाक्षीणामित्यर्थः । भित्या. दिव्यवधाने शब्दमात्रग्रहणे शब्दोऽयं पिकसमत्वात्कामिन्या एवेति ज्ञाने विषये प्रत्यक्षतायां तु गौरागीयं सुरूपेत्यादिरूपादिविषयकज्ञानविषय एव च विख्याता इत्यर्थः । एतादृशाः प्रायशः अखिलाः सर्वे पुमांसो भवन्तीति योजना । परंतु सुदृशां खजनाक्षीणां तरुणीनामित्यर्थः । हृदयेति । चेतोवशीकारपुरःसरमुरोजनहणकर्ता तु सहस्त्रेषु कोप्येक एव तत्तत्पुण्यविशेषपरिपाकतस्तादृग्गुणगणवांस्तत्तत्पतिर्भवतीति यावत् । एवं चैतादृगतिविरल इत्याशयः । वस्तुपक्षे शब्देति । 'अस्ति भाति प्रियं रूपं नाम चेत्यशपञ्चकम् । आयत्रयं ब्रह्मरूपं मायारूपं ततो द्वयम्' इत्यभियुक्तोक्त मरूपात्मकदृश्यमात्रविषयज्ञानविख्याता इत्यर्थः । सुदृशां बादरायणाद्याचार्याणाम् । हृदयेति । तात्पर्य विषयीभूतसच्चिदानन्दाद्वैतात्मतत्त्वविषयकापरोक्षाप्रतिबद्धबोधवानित्येतत् । सहस्रष्विति । 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत्' इति ‘कश्चिन्मां वेत्ति तत्त्वतः' इति च श्रुतिस्मृतिभ्यां परमदुरवाप इत्यभिप्रायः । शिष्टं तु स्पष्टमेव । सदूषणापीति । रामायणकथापक्षे खरदूषणाख्यविख्यातराक्षसहननवर्णनवत्यपीत्यर्थः । असौ वाल्मीकिः । कान्तापक्षे असो ब्रह्मा जयति । असौ कः । येन रम्या रन्तुं योग्या सकलगुणरमणीया रमणी कृतेत्यन्वयः । कीदृशी रम्या सेति । दिनचतुष्टयं पुष्पवत्त्वात्सदूषणापीत्यर्थः । पुनः सेति कटाक्षे । तीक्ष्णापीत्यर्थः । नन्वेवमप्यर्थश्लेषाभङ्गाख्यशब्दश्लेषभेदयोः परस्परं सांकर्यमिव दृश्यते । तथाहि 'रक्तकृष्णार्जुना गीता गुरुदृष्टिः पुनातु नः' इति त्वदीयमर्धश्लेषोदाहरणम् । तद्वत् 'कमलोन्मीलनः कोऽपि पातु मां खप्रभो हरिः' इत्यभङ्गश्लेषस्य च तत् । एवमेतन्मूलीभूतरसगङ्गाधरकारस्यापि क्रमात् 'अर्जुनस्य गुरुर्मायामनुजः परमः पुमान् । गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः' इति । 'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोरातिः। निजसेविजाड्यना.

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576