SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४६२ . . साहित्यसारम् । [ उत्तरार्धे दयस्य हरणं विषयेभ्यः सकाशादाकर्षणं तत्र निपुणः । सरलेति । सुशीलश्रेष्ठः श्रितेति आलम्बिताखण्डचन्द्रखण्डमण्डललक्षणशिवाख्यसगुणब्रह्मक इत्यर्थः। यद्वा निरन्तराश्रितगुणवानित्यर्थः । तत्रापि चन्द्रेत्यादि । श्रीचन्द्रचूडं निरन्तरं वर्णय. नित्यर्थः । एतादृशः सहस्रति । सहस्रं संख्यया अभितः शयाः हस्ताः यस्य स तथा । तस्य सहस्रभुजत्वं प्रसिद्धम् । बाणः बाणासुर इत्येतत् । जयतीत्यु. कार्थे । यथावा तत्रैव-इह शब्दरूपमात्रग्रहणचणाः प्रायशो भवन्त्यखिलाः । सुदृशां हृदयग्राही भवति सहस्त्रेषु कोऽप्येकः' इति । अयमर्थः । इह लोके । शब्देति । सुबन्तादिविभक्तिरूपमात्रज्ञानप्रख्याताः एतादृशोऽपि प्रायशः बाहुल्येन नतु नियमेन । अखिला भवन्तीति संबन्धः । ततः किं तत्राह-सुह. शामित्यादि । सुदृशां विज्ञानशालिनां ग्रन्थकृतामित्यर्थः । हृदयेति । रहस्य. ग्रहणशील इति यावत् । एतादृशस्तु पुरुषः सहस्रेषु कोऽप्येको भवतीत्यन्वयः । तादृशः पुरुषपुंगवः सुदुर्लभ एवेति भावः । अयमर्थः प्रकृतो निबन्धाशयज्ञपक्षे । शृङ्गारपक्षे तु शब्देति सुदृशामित्यादौ योज्यम्। मृगाक्षीणामित्यर्थः । भित्या. दिव्यवधाने शब्दमात्रग्रहणे शब्दोऽयं पिकसमत्वात्कामिन्या एवेति ज्ञाने विषये प्रत्यक्षतायां तु गौरागीयं सुरूपेत्यादिरूपादिविषयकज्ञानविषय एव च विख्याता इत्यर्थः । एतादृशाः प्रायशः अखिलाः सर्वे पुमांसो भवन्तीति योजना । परंतु सुदृशां खजनाक्षीणां तरुणीनामित्यर्थः । हृदयेति । चेतोवशीकारपुरःसरमुरोजनहणकर्ता तु सहस्त्रेषु कोप्येक एव तत्तत्पुण्यविशेषपरिपाकतस्तादृग्गुणगणवांस्तत्तत्पतिर्भवतीति यावत् । एवं चैतादृगतिविरल इत्याशयः । वस्तुपक्षे शब्देति । 'अस्ति भाति प्रियं रूपं नाम चेत्यशपञ्चकम् । आयत्रयं ब्रह्मरूपं मायारूपं ततो द्वयम्' इत्यभियुक्तोक्त मरूपात्मकदृश्यमात्रविषयज्ञानविख्याता इत्यर्थः । सुदृशां बादरायणाद्याचार्याणाम् । हृदयेति । तात्पर्य विषयीभूतसच्चिदानन्दाद्वैतात्मतत्त्वविषयकापरोक्षाप्रतिबद्धबोधवानित्येतत् । सहस्रष्विति । 'कश्चिद्धीरः प्रत्यगात्मानमैक्षत्' इति ‘कश्चिन्मां वेत्ति तत्त्वतः' इति च श्रुतिस्मृतिभ्यां परमदुरवाप इत्यभिप्रायः । शिष्टं तु स्पष्टमेव । सदूषणापीति । रामायणकथापक्षे खरदूषणाख्यविख्यातराक्षसहननवर्णनवत्यपीत्यर्थः । असौ वाल्मीकिः । कान्तापक्षे असो ब्रह्मा जयति । असौ कः । येन रम्या रन्तुं योग्या सकलगुणरमणीया रमणी कृतेत्यन्वयः । कीदृशी रम्या सेति । दिनचतुष्टयं पुष्पवत्त्वात्सदूषणापीत्यर्थः । पुनः सेति कटाक्षे । तीक्ष्णापीत्यर्थः । नन्वेवमप्यर्थश्लेषाभङ्गाख्यशब्दश्लेषभेदयोः परस्परं सांकर्यमिव दृश्यते । तथाहि 'रक्तकृष्णार्जुना गीता गुरुदृष्टिः पुनातु नः' इति त्वदीयमर्धश्लेषोदाहरणम् । तद्वत् 'कमलोन्मीलनः कोऽपि पातु मां खप्रभो हरिः' इत्यभङ्गश्लेषस्य च तत् । एवमेतन्मूलीभूतरसगङ्गाधरकारस्यापि क्रमात् 'अर्जुनस्य गुरुर्मायामनुजः परमः पुमान् । गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः' इति । 'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोरातिः। निजसेविजाड्यना.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy