SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । ४६३ शनचतुरो हरिरस्तु भूतये भवताम्' इति चार्थश्लेषाभङ्गश्लेषोदाहरणे । तथाच किमत्र भेदकमिति न स्फुटीभवतीति चेन । लक्षणादिभेदेनैव तत्स्फुटीभावात् । तद्यथा । तत्रोभयमते एवेमे अनयोलक्षणे । सकृच्छ्रवणमात्रेण प्रकृतैकाश्रितानेकार्थप्रतिपादनं शुद्धापराभिध आर्थश्लेषः । तत्वे सत्यनेकधर्मपूर्वकमेकशब्दप्रतिभानद्वारकतत्प्रतिपादनमभङ्गश्लेष इति । तत्र रक्तेत्याद्युदाहरणे सकृच्छ्रवणमात्रेणैव संवर्णनीयत्वेन स्वकर्मकपावयितृत्वाद्भगवद्गीताश्रीमद्गुरुदृष्टयोरुभयोरपि प्रकृतला. त्तन्मात्राश्रितत्वेनानेकार्थप्रतिपादनं स्पष्टमेव । नच रक्तकृष्णार्जुनेत्यत्रानेके धमोः प्रतिभासन्त इति सांप्रतम् । अदृष्टतयाख्याकत्वेन भवत एवैतदान्ध्यात् । तत्र हि रक्तौ गुरुशिष्यवरत्वसाम्यलाभेन सर्वात्मना परस्परमनुरक्तौ कृष्णार्जुनौ यस्यां सा तथेति गीतापक्षे विगृह्य, गुरुदृष्टिपक्षे विग्रहान्तरमनुक्त्वैव कोणाद्यवच्छेदेन शोणश्यामशुक्लवर्णेत्यर्थ इत्युक्तम् । तथाच पक्षान्तरेप्युक्तव्युत्पत्तेरेव संमतत्वेन रक्तौ कोणावच्छेदेन रक्तवर्णसंसृष्टौ कृष्णार्जुनौ शिष्योपरि कृपयाऽपाङ्गसंचारे कदाचित्तारकाख्यकनीनिकावच्छिन्नः कृष्णवर्णः कोणस्थशोणवर्णेन सं. पृक्तो भवति क्वचित् परिसरवृत्तिकः शुक्लोपीति द्वावप्युपात्तौ । यस्यामित्यादि शिष्टं तु प्राग्वदेव । एवंच गीतागुरुदृष्टयोरुभयोरपि प्रकृतयोरेकधर्मपुरस्कारेणैव प्रतिपादनात्वोदाहरणान्तरसंकरः । नन्वेवं तर्हि रसगङ्गाधरोदाहरणेपि हरिपक्षे गुञ्जापुञ्जधरत्वार्जुनगुरुत्वयोर्खाल्यादिकालभेदेन भवतु संगतमिति चेत्सत्यम् । तत्र विशेषणयोः साक्षादेव कालभेदेन सामानाधिकरण्यम्।अत्र तु रक्तकृष्णार्जुनेति विशेषणनिविष्टकृष्णार्जुनपदार्थयोरेव रक्तपदार्थेन सह कालभेदेन संपृक्तत्वमिति वैषम्यात् । एवं कमलोन्मीलनेत्यायभङ्गश्लेषोदाहरणेपि। कमलाया लक्ष्म्याःउन्मीलनं मन्दस्मितरूपं विकसनं येन स तथा रमाप्रेमपात्रीभूत इत्यर्थ इति विष्णुपक्षे व्याख्याय । कमलानां पद्मानां उन्मीलनं विकसनं येन स तथेति सूर्यपक्षे व्याख्यातमिति स्फुटमेवानेकधर्मपूर्वकत्वम् । व्युत्पत्तिव्युत्पाद्ययोरुभयोरपि विभिन्नत्वात् । अत एव मयार्थश्लेषोदाहरणविवरणे 'अयं समुद्यन्-' इत्यादिकृष्णलीलामृतीयं द्वितीयमुदाहरणं निरुक्तरसगङ्गाधरोदाहरणाखरसमुक्तलक्षणमथवेति संसूच्य लि. खितम् । तत्रापि प्रफुल्लपद्माशयसद्मदीपक इति पदेनाभङ्गश्लेषोदाहरणत्वरूपं तं तथैव द्योतयित्वा सद्वृत्तमेवेत्यादिनीति शतपत्रीयपद्यमुदाहृत्य तत्रापि प्रकृताप्रकृतार्थश्लेषोदाहरणत्वरूपं तं पुनरपि तथैवाभिव्यज्य धन्यानामित्यादिभागीरथीकथापद्यमुदाहृतम् । तत्र मङ्गलग्रन्थत्वेन शृङ्गारप्राधान्यध्वननार्थकत्वेन च वाणीरमण्योरुभयोरपि प्रकृतत्वात्प्रकृतौचित्यमेव । परंतु सुवर्णरूपा इत्यत्र सुवर्णवत्काञ्चनवत्सर्वाभिलषणीयानि रूपाणि, सुन्दरीपक्षे गौरत्वाखिलावयवसुन्दरत्वतारुण्यलावण्यादिधर्मजातानि, वाणीपक्षे सुबन्तादिशब्दरूपाणि यासामिति । तथा नानालंकृतीत्यादिपदे च नानालंकृतिभिरुपमाद्यनेकालंकारैर्विलसन्तः शोभमानाः ध्वनयः व्यङ्गयार्थाः येषां तादृशाः प्रचाराः खयोग्यस्थाने संचाराः यासा
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy