________________
४६४ साहित्यसारम्।
[ उत्तरार्धे ता इति वाणीपक्षे, रमणीपक्षे तु नानालंकृतिभिर्बहुकङ्कणाद्याभरणैः विलसन्तः ध्वनयः येषां तादृशाः प्रचारा इत्यादिप्राग्वदेव व्युत्पत्तिर्बोध्येत्यलं प्रसक्कानुप्रक्त्येति शिवम् ॥ ननु यत्प्रागेकशतोत्तरषडशीतितमश्लोकतट्टीकयोरप्रकृतश्लेषाख्य. शुद्धश्लेषादिभेदषट्केपि श्लेषघटितत्वं विशेषणैकपदगं संमतम् । ननु विशेष्यपदगमपि अन्यथाशब्दशक्तिमूलध्वनिभेदोच्छेदापत्तेरित्युक्तम् । तत्र कीदृशं तच्छ. ब्दशक्तिमूलध्वनियुक्तमुदाहरणं येन निरुक्तापत्तिर्मबुद्धिमारोहेदिति चेदुच्यते । सद्वृत्तमेव संसेव्येत्यादिप्रागुक्तं मदीयनीतिशतपत्रपद्यमेवाऽस्तु । तत्र हि द्वितीयो वर्णशब्दवाच्याक्षरपरो योऽर्थः प्रतीयते सतु शब्दशक्तिमूलध्वनेरेव विषयः व्यञ्जनां विना तत्र गत्यन्तराभावात् । एवमेवोक्तं रसगङ्गाधरेपि । यत्र तु प्रकृताप्रकृतोभयविशेष्ययोरपि श्लिष्टपदोपात्तत्वं सतु ध्वनेर्विषय इत्युक्तम् । सच यथा-'अविरलविगलितदानोदकधारासारसिक्तधरणितलः । धनदायमहितमूर्तिर्जयति तरां सार्वभौमोऽयम्' इति । यच्चात्र कुवलयानन्दकारमतमनूद्य रसगङ्गाधरकारेण तृणितं तन्नातिरमणीयम् । तथाहि कुवलयानन्देहि यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चस्तत्तु प्रकृताप्रकृताभिधानमूलस्योपमादेरलंकारस्य व्यनयत्वाभिप्रायं नत्वप्रकृतार्थस्यैव व्यङ्गयत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्र. तिपाद्यस्याभिधाया अवश्यभावेन व्यक्त्यनपेक्षत्वादित्यायुक्तं तत्र मुख्य दूषणबीजं तावत्तस्य । 'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृयापृतिरञ्जनम्' इति प्राचामाचार्याणां ग्रन्थविरोध एव । परंतु कुवलयानन्दकारैरपीदमुक्तम् । सरखतीकण्ठाभरणोक्ताभिन्नपदश्लेषोदाहरणविवरण एव । तत्रतु 'श्लेषोऽनेकार्थकथनं पदेनैकेन कथ्यते । पदक्रियाकारकैः स्याद्भिन्नाभिन्नैः स षडिधः' । तेषु भिन्नपदो यथा-'दोषाकरेण संबद्धो नक्षत्रपथवर्तिना । राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते' । अत्र प्रदोषो रात्रेः प्रथमयामः किमिति प्रियारहितं मां न बाधते इत्युक्तेयुक्तिमाह । इत्थमनुभूयमानेन प्रकारेण राज्ञा संबद्धः । कीदृशेन दोषाकरेण । नक्षत्रपथवर्तिनेति । योहि दोषाणामाकरेण राज. मार्गातिगामिना च राज्ञा प्रकृष्टदोषः संबध्यते असावप्रियमवश्यं बाधत एव । तदत्र पूर्वस्मिन् प्राकरणिकेऽर्थे द्वितीयोऽर्थोऽप्राकरणिकः पदभेदेनोपश्लिष्यमाणो भिन्नपदश्लेषापदेशमासादयति । अभिन्नपदो यथा-'असावुदयमारूढः कान्तिमा. वक्तंमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः'। अत्रायमुदीयमानश्चन्द्रमा लोकस्य हृदयं हरतीत्युक्तेर्युक्तिमाह । राजानुरक्तमण्डलः उदयी मृदुकरः कान्तिमानिति । यो ह्येवंभूतो राजा सोऽवश्यं लोकस्य हृदयहारी भवति । अत्रापिच प्राकरणिकेऽर्थे प्राकरणिक उपश्लिष्यमाणः पदानामभेदेनाभिन्नपदः श्लेषो भवतीति । एवंच तन्मत एतस्यालंकारत्वात्तत्र च काव्यप्रकाशादिग्रन्थविरोधे तदभिप्रायवर्णनं कुवलयानन्दकारैः कृतम् । तथा चैतन्मते भवतु शब्दशक्तिमूलध्वनित्वमिति मतभेदेनोभयमपि संगतमेव । अतएव रसगङ्गाधरकारेणोक्तग्रन्थ