SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ] ८ सरसामोदव्याख्यासहितम् । ४६५ 1 विरोधाद्यभिधायान्ते स्वमतमुक्तम् । वयं तु ब्रूमः - अनेकार्थस्थले ह्यप्रकृताभिधाने । शक्तेरुक्तिसंभवोऽप्यस्ति । योगरूढिस्थले तु सोपि दुरापास्तः । यथा 'चाञ्चल्ययोगि नयनं तव जलजानां श्रियं हरतु । विपिनेऽतिचञ्चलानामपि च मृगाणां कथं नु तां हरति' । अत्र नैवाश्चर्यकारी चाञ्चल्यगुणरहितानां कमलानां चाञ्चल्यगुणाधिकेन च तव लोचनेन शोभायास्तिरस्कारः । आश्चर्यकारी तु हरिणानां तु तद्गुणयुक्तानां तिरस्कार इति वाच्यार्थे पर्यवसनेपि रूढिनिर्मुक्त केवल योगमर्यादया मूर्खपुत्राणां धनग्रहणं नेतृभिश्वोरैः सुशकं नतु गवेषकाणामिति जलजनयन मृगशब्देभ्यः प्रतीयमानोऽर्थः कथं विना व्यञ्जनव्यापारं उपपादयितुं शक्यते । यतो योगशक्ते रूढ्या दृढनियत्रिताया नास्ति स्वातन्त्र्यम् । अतएव पङ्कजादिपदेभ्यः पङ्कजनिकर्तृत्वेन कुमुदशैवालादिबोधो लक्षणयैव तादृशशक्तिज्ञानां पद्मत्वप्रकारक बोधत्वस्यैव कार्यतावच्छेदकत्वादित्युक्तं नैयायिकैः । अतएवच 'ईशानो भूतभव्यस्य स एवाद्य स उ श्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिज्जीवः प्रतिपाद्य ईश्वरो वेति संशये प्राप्ते 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्व्यासचरणैः । तस्मात्प्रागुक्तपद्ये प्रकृतचोरव्यवहारो न शक्तिवेद्योऽपि तु व्यक्तिवेद्य एव । मुख्यार्थबाधाभावाल्लक्ष्योऽपि न शक्यो वक्तुम् । तात्पर्यबाधस्तु तात्पर्यार्थबोधोत्तर बोध्यः : सएव तु कथं स्यादिति व्यञ्जनैव शरणीकरणीया । नहि चोरव्यवहारोऽत्र वक्तुर्विवक्षित इति ज्ञाने श्रोतुः कश्चिदुपायोऽस्ति ऋते सहृदयतोन्मिषितादुक्तव्यापारादिति । तस्मादनेकार्थस्थले निरुक्तोदाहरणादौ शक्त्युक्तिसंभवस्त्वेतत्संमतोऽप्यस्त्येव । तेन मतभेदव्यवस्थयोभयाविरोध एव ज्यायानित्यलं पल्लवितेन ॥ अयं श्लेषालंकारः प्रायेणोपमावदने कालंकारोपकारकत्वेन तत्साहचर्यातिवर्यतामेवैति यद्यप्यथापि दिङ्मात्रमुदाह्रियते । तत्र च्छे कापह्नुतौ यथा कुवलयानन्दे—'पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वप्नवचो निशम्य स रुषा निर्भत्सितो राधया कृष्णस्तत्परमेव तद्व्यपदिशन् क्रीडाविटः पातु वः' इति । विष्णोर्हि 'हीश्च ते लक्ष्मीश्च पत्न्यौ' इति श्रुतेः सरखती लक्ष्मीश्चेति पत्नीद्वयं । तत्संस्कारात्क्वचिद्वसन्तकाले वृन्दावने विकसितमधुमालती निकुञ्जे तत्कुसुमशय्यायां राधिकया सह यथेच्छसुरतविलासमासाद्य तयालिङ्गितः प्रसुप्तः खप्ने ते उभे अपि प्रेयसी विलो - क्य पद्म इत्यादिपूर्वार्ध जजल्प । हे पद्मे रमे, अहं त्वन्नयने सततं स्मरामि । एवं भो नीले, भर्तुः श्यामवर्णत्वात् शारदया निसर्गशुक्लयापि पातित्रत्यपरिपाल - नाय कृष्णवर्णस्य कृतत्वान्नीला सरखतीति शास्त्रे प्रसिद्धमेव । तस्मादये नीले प्रेयसि, मे भावो मनः संकल्पविशेषः भवत्कुन्तले तव कबरीभारे मुह्यति संसको भवतीत्यर्थः । तत्र हेतुमाह । यतोऽहं ते तव महितैः पूजितैर्विभ्रमैर्विलासैः क्रीतः विशिष्टमूल्यप्रदानेन यावद्देहं दासीकृतोऽस्मि, अतः किं करोमि तदाज्ञापयेत्यार्थिकम् । इत्युत्स्वप्नवचः प्रारब्धवशादकस्मात्संजातजागरया राधया निशम्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy