________________
४६६ साहित्यसारम् ।
[ उत्तरार्धे सादृश्यादिप्रकारेणाप्रस्तुतव्यवहारतः। साऽप्रस्तुतप्रशंसा स्यात्प्रस्तुतो यत्र कथ्यते ॥ १९१॥ तजेस्विष्वर्क एवैको वन्द्यो यद्दीप्तियोगतः।
तमाशमश्च पाषाणोऽप्येति तेजस्वितां यतः ॥ १९२ ॥ श्रुत्वा सरुषा सत्या निभर्सितः कृष्णः तद्वचः तत्परमेव हे राधे, त्वन्नयने अहं पद्मे स्मरामि, तथा नीले अतिश्यामवर्णे भवत्कुन्तले इत्यादि राधिकापरमेव व्यपदिशन्नित्यादि स्पष्टमेव । यथावा साहित्यदर्पणे—'काले पयो धराणामपति. तया नैव शक्यते स्थातुम् । उत्कण्ठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः' इति । अत्र अपतितया पतिवियुक्ततयेति स्वाभिमतम्, योजितं तु अप. तितया अस्खलितया मयेत्यादि । शिष्टं तु स्पष्टमेव ॥ १९० ॥ एवं श्लेषं निरूप्य तस्य प्रकृताप्रकृतघटितत्वप्रसङ्गसंगतामप्रस्तुतप्रशंसां लक्षयति-साहः श्यादीति । यत्र यस्यां वक्ष्यमाणायामलंकृतावित्यर्थः । सादृश्यादीति । सादृश्यं प्रागुक्तमुपमानोपमेयसाधर्म्यम् । आदिना वक्ष्यमाणाः कार्यकारणादयः। एवंच साधाद्यन्यतमप्रकारेणेति यावत् । अप्रस्तुतेति । अप्रस्तुतः अप्रकृतः अवर्ण्य इत्येतत् एतादृशो यो व्यवहारस्तेनेत्यर्थः । सार्वविभक्तिकस्तसिः । व्यधिकरणे तृतीये । प्रस्तुतः प्रकृतः संवर्ण्य इति यावत् । एतादृशः व्यवहार इत्यार्थिकम् । कथ्यते ज्ञाप्यते । सा अप्रस्तुतप्रशंसा अलंकृतिः स्यादित्यन्वयः । एवंच साधाद्यन्यतमप्रकारकरणकाप्रस्तुतव्यवहारवर्णननिमित्तकप्रस्तुतव्यवहारप्रतिपादककाव्यव्यङ्गयार्थोपस्कारकचमत्कारजनकलमप्रस्तुतप्रशंसात्वमित्येव तल्लक्षणं फलितम् । अत्र वक्ष्यमाणानेकतद्भेदसंग्रहार्थे साधादीत्यादिकरणकान्तम् । समासोक्त्यतिव्याप्तिव्यावृत्तये अप्रस्तुतव्यवहारेति । स्तुतिनिन्दोभयस्यापि संग्र. हाथै वर्णनेति निमित्तपदमुपादानीभूतकाव्यव्यावृत्तय एव । पर्यायोक्तव्यावृत्तिसिद्धयै प्रस्तुतव्यवहारप्रतिपादकेति । काव्येत्यादित्वलंकृतिसामान्यसंग्रहार्थे प्रायः प्राग्व्याख्यातमेव । तदुक्तं रसगङ्गाधरे-'अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते सा अप्रस्तुतप्रशंसा । प्रशंसनं च वर्णनामात्रं नतु स्तुतिः । 'धितालस्योन्नततां यस्य च्छायापि नोपकाराय' इत्यादावव्याप्यापत्तेः । इयं पञ्चधा अप्रस्तुतेन खेन सदृशं प्रस्तुतं गम्यते यस्यामित्येका, कार्येण कारणमित्यपरा, करणेन कार्यमिति तृतीया, सामान्येन विशेष इति चतुर्थी, विशेषे सामान्यमिति पञ्चमीति ॥ १९१॥ तामु. दाहरति-तेजस्विष्विति । पूर्वार्धमिदं निगदव्याख्यातमेव । तमःशमश्चेति । 'माया च तमोरूपानुभूतेः' इति श्रुतेरत्र तमःपदमिदं श्लिष्टम् । तेन प्रकृतोऽत्र सद्गुरुरेव नतु कश्चिच्छौर्योत्कर्षशाली भूपाल इति द्योत्यते । चः समुचये । तथा यतः यत्संबन्धित्वेन यत्स्वामिक इत्यर्थः । पाषाणोपि । एतेनातिजाज्यात्रैकालिकतत्वानर्हवं ध्वन्यते । सूर्यकान्त इत्यर्थः । तेजखितां वन्द्युत्पा